Samveda Bhashyam (Acharya Ramnath Vedalankar)

Samveda Mantra 119

1875 Mantra
Devata- इन्द्रः Rishi- श्रुतकक्षः आङ्गिरसः Chhand- गायत्री Swara- षड्जः Kaand Name- ऐन्द्रं काण्डम् Gaan- प्रकृति गान Gaan Parva- ऐन्द्रं पर्व
Mantra with Swara
त꣡मिन्द्रं꣢꣯ वाजयामसि म꣣हे꣢ वृ꣣त्रा꣢य꣣ ह꣡न्त꣢वे । स꣡ वृषा꣢꣯ वृष꣣भो꣡ भु꣢वत् ॥११९॥

त꣢म् । इ꣡न्द्र꣢꣯म् । वा꣣जयामसि । महे꣢ । वृ꣣त्रा꣡य꣢ । ह꣡न्त꣢꣯वे । सः । वृ꣡षा꣢꣯ । वृ꣣षभः꣢ । भु꣣वत् ॥११९॥

Mantra without Swara
तमिन्द्रं वाजयामसि महे वृत्राय हन्तवे । स वृषा वृषभो भुवत् ॥

तम् । इन्द्रम् । वाजयामसि । महे । वृत्राय । हन्तवे । सः । वृषा । वृषभः । भुवत् ॥११९॥

Samveda - Mantra Number : 119
(Kauthum) पूर्वार्चिकः: » Prapathak » 2; Ardh Prapathak » 1; Dashati » 3;
(Rananiya) पूर्वार्चिकः: » Adhyay » 2; Khand » 1;

Samveda Bhashyam (Acharya Ramnath Vedalankar)

संस्कृत
Samveda Bhashyam (Acharya Ramnath Vedalankar) - संस्कृत
Meaning
प्रथमः—परमात्मपक्षे। (महे) महते (वृत्राय) सूर्यप्रकाशस्य जलस्य स (आवरकाय) मेघाय इव धर्मावरकाय पाप्मने। पाप्मा वै (वृत्रः)। श० ११।१।५।७ द्वितीयार्थे चतुर्थी। महान्तं पाप्मानमित्यर्थः। वृत्रो वृणोतेः.... यदवृणोत् तद् वृत्रस्य वृत्रत्वमिति विज्ञायते। निरु० २।७। (हन्तवे) हन्तुम्। तुमर्थे सेसेन्०।’ अ० ३।४।९ इति हन् धातोः तुमर्थे तवेन् प्रत्ययः। तस्य नित्यत्वाद् हन्तवे इति पदस्य ञ्नित्यादिर्नित्यम् अ० ६।१।१९७ इत्याद्युदात्तत्वम्। (तम्) प्रसिद्धम् (इन्द्रम्) महावीरं परमेश्वरं (वाजयामसि) अर्चयामः। वाजयति अर्चतिकर्मा। निघं० ३।१४। इदन्तो मसि अ० ७।१।४६ इति मसः इदन्तत्वम्। (वृषा) वर्षकः (सः) परमेश्वरः (वृषभः२) धर्मस्य वृष्टिकर्त्ता (भुवत्) भवतु। लेटि बहुलं छन्दसि। अ० २।४।७३ इति शपो लुकि भूसुवोस्तिङि। अ० ७।३।८८ इति गुणनिषेधः। अथ द्वितीयः—राजपक्षे। (महे वृत्राय) महते शत्रवे, महान्तं शत्रुमित्यर्थः। (हन्तवे) हन्तुम्, वयम् (तम्) प्रजाभिर्निर्वाचितम् (इन्द्रम्) सुवीरं राजानम् (वाजयामसि३) निजसाहाय्यप्रदानेन बलिनं कुर्मः प्रोत्साहयामो वा। (वृषा) मेघतुल्यः (सः) असौ राजा (वृषभः) शत्रूणामुपरि आग्नेयास्त्राणां वर्षकः प्रजानामुपरि च सुखवर्षकः (भुवत्) भवेत् ॥५॥ अत्र वृषा, वृष इत्यत्र छेकानुप्रासः। वृषा-वृषभः इत्युभयोः बलीवर्दवाचकत्वाद् पुनरुक्तवदाभासोऽपि, यौगिकार्थनिष्पत्त्या च प्रतीयमानायाः पुनरुक्तेः परिहारः ॥५॥
Essence
अनावृष्टिदिवसेषु मेघो यथा सूर्यप्रकाशं जलं चावृण्वन् भूम्यामन्धकारम् अवर्षणं च जनयति, तथैव पापविचाराः पापकर्माणि च भूमण्डले प्रसारं प्राप्य सत्यस्य प्रकाशं धर्मरूपं स्वच्छोदकं चावृत्याऽसत्यान्धकारम् अधर्मरूपमवर्षणं च जनयन्ति। इन्द्राख्यः परमेश्वरो यथा मेघरूपं वृत्रं हत्वा सूर्य-प्रकाशं वृष्टिजलं च निर्बाधगत्या भूमिं प्रति प्रवाहयति, तथैव स पापरूपं वृत्रं विनाश्य जगति सत्यस्य प्रकाशं धर्मस्य वृष्टिं चोन्मुक्तरूपेण प्रवाहयेत्, येन सर्वे भूमण्डलनिवासिनः सत्यज्ञान-सत्याचारपरायणा धार्मिकाश्च भूत्वा परमसुखिनो भवेयुः। तथैव राष्ट्रे नृपतेरपि कर्त्तव्यं यत्स दुष्टान् शत्रून् हत्वा सुखं जनयेदिति ॥५॥
Subject
अथ स्तोतारः प्रजाजनाश्चाहुः।
Footnote
१. ऋ० ८।९३।७, अथ० २०।४७।१, २०।१३७।१२—सर्वत्र ऋषिः सुकक्षः। साम० १२२२। २. वृषभः। लुप्तोपमम् इदम्। वृषभ इव। यथा वृषभः रेतसः वर्षिता तद्वद् वर्षिता उदकस्य भवत्वित्यर्थः—इति वि०। ३. वाजिनं बलिनं कुर्मः स्तुतिभिः—इति भ०।