Samveda Bhashyam (Acharya Ramnath Vedalankar)

Samveda Mantra 1189

1875 Mantra
Devata- पवमानः सोमः Rishi- असितः काश्यपो देवलो वा Chhand- गायत्री Swara- षड्जः
Mantra with Swara
प꣡व꣢न्ते꣣ वा꣡ज꣢सातये꣣ सो꣡माः꣢ स꣣ह꣡स्र꣢पाजसः । गृ꣣णाना꣢ दे꣣व꣡वी꣢तये ॥११८९॥

प꣡वन्ते꣢꣯ । वा꣡ज꣢꣯सातये । वा꣡ज꣢꣯ । सा꣣तये । सो꣡माः꣢꣯ । स꣢ह꣡स्र꣢पाजसः । स꣣ह꣡स्र꣢ । पा꣣जसः । गृणानाः꣢ । दे꣣व꣡वी꣢तये । दे꣣व꣢ । वी꣣तये ॥११८९॥

Mantra without Swara
पवन्ते वाजसातये सोमाः सहस्रपाजसः । गृणाना देववीतये ॥

पवन्ते । वाजसातये । वाज । सातये । सोमाः । सहस्रपाजसः । सहस्र । पाजसः । गृणानाः । देववीतये । देव । वीतये ॥११८९॥

Samveda - Mantra Number : 1189
(Kauthum) उत्तरार्चिकः: » Prapathak » 5; Ardh Prapathak » 1;
(Rananiya) उत्तरार्चिकः: » Adhyay » 9; Khand » 2;

Samveda Bhashyam (Acharya Ramnath Vedalankar)

संस्कृत
Samveda Bhashyam (Acharya Ramnath Vedalankar) - संस्कृत
Meaning
(सहस्रपाजसः) सहस्रबलाः। [पाजस् इत्यत्र पा रक्षणे धातोर्बलेऽर्थेऽभिधेये ‘पातेर्बले जुट् च’ उ० ४।२०४ इत्यनेन असुन् प्रत्ययः जुडागमश्च।] (सोमाः) परमानन्दरसाः (गृणानाः) स्तूयमानाः सन्तः। [गृणातेः स्तुत्यर्थकात् कर्मणि कर्तृप्रत्ययः।] (वाजसातये) बलप्रदानाय (देववीतये) दिव्यगुणप्रजननाय च (पवन्ते) प्रवहन्ति ॥३॥
Essence
परब्रह्मणः सकाशात् परमानन्दं प्राप्योपासकजना ब्रह्मबलयुक्ता दिव्यगुणाश्च जायन्ते ॥३॥
Subject
अथ ब्रह्मानन्दरसान् वर्णयति।
Footnote
१. ऋ० ९।१३।३।