Samveda Bhashyam (Acharya Ramnath Vedalankar)

Samveda Mantra 1188

1875 Mantra
Devata- पवमानः सोमः Rishi- असितः काश्यपो देवलो वा Chhand- गायत्री Swara- षड्जः
Mantra with Swara
प꣡व꣢मानमवस्यवो꣣ वि꣡प्र꣢म꣣भि꣡ प्र गा꣢꣯यत । सु꣣ष्वाणं꣢ दे꣣व꣡वी꣢तये ॥११८८॥

प꣡व꣢꣯मानम् । अ꣣वस्यवः । वि꣡प्र꣢꣯म् । वि । प्र꣣म् । अभि꣢ । प्र । गा꣣यत । सुष्वाण꣢म् । दे꣣व꣡वी꣢तये । दे꣣व꣢ । वी꣣तये ॥११८८॥

Mantra without Swara
पवमानमवस्यवो विप्रमभि प्र गायत । सुष्वाणं देववीतये ॥

पवमानम् । अवस्यवः । विप्रम् । वि । प्रम् । अभि । प्र । गायत । सुष्वाणम् । देववीतये । देव । वीतये ॥११८८॥

Samveda - Mantra Number : 1188
(Kauthum) उत्तरार्चिकः: » Prapathak » 5; Ardh Prapathak » 1;
(Rananiya) उत्तरार्चिकः: » Adhyay » 9; Khand » 2;

Samveda Bhashyam (Acharya Ramnath Vedalankar)

संस्कृत
Samveda Bhashyam (Acharya Ramnath Vedalankar) - संस्कृत
Meaning
हे (अवस्यवः) रक्षणेच्छवो जनाः ! यूयम् (देववीतये) दिव्यगुणानां प्राप्तये (पवमानम्) पवित्रीकुर्वन्तम्, (विप्रम्) विशेषेण प्रीणयितारम् पूरकं वा। [विपूर्वात् प्रीञ् तर्पणे, प्रा पूरणे इति वा धातोर्डप्रत्यये रूपसिद्धिः, पदपाठे ‘वि-प्रम्’ इति दर्शनात्।] (सुष्वाणम्) आनन्दरसं सुतवन्तम् सोमं रसागारं परमात्मानम् (अभि) लक्ष्यीकृत्य (प्र गायत) प्रकर्षेण गानं कुरुत ॥२॥
Essence
परमात्मनो गुणगानेन ध्यानेन चोपासकै रक्षणं पवित्रता तृप्तिः पूर्णताऽऽनन्दश्च प्राप्यते ॥२॥
Subject
अथ परमात्मस्तुत्यर्थं प्रेरयति।
Footnote
१. ऋ० ९।१३।२।