Samveda Bhashyam (Acharya Ramnath Vedalankar)

Samveda Mantra 1187

1875 Mantra
Devata- पवमानः सोमः Rishi- असितः काश्यपो देवलो वा Chhand- गायत्री Swara- षड्जः
Mantra with Swara
सो꣡मः꣢ पुना꣣नो꣡ अ꣢र्षति स꣣ह꣡स्र꣢धारो꣣ अ꣡त्य꣢विः । वा꣣यो꣡रिन्द्र꣢꣯स्य निष्कृ꣣त꣢म् ॥११८७॥

सो꣡मः꣢꣯ । पु꣣नानः꣢ । अ꣣र्षति । स꣣ह꣡स्र꣢धारः । स꣣ह꣡स्र꣢ । धा꣣रः । अ꣡त्य꣢꣯विः । अ꣡ति꣢꣯ । अ꣣विः । वायोः꣢ । इ꣡न्द्र꣢꣯स्य । नि꣣ष्कृत꣢म् । निः꣣ । कृत꣢म् ॥११८७॥

Mantra without Swara
सोमः पुनानो अर्षति सहस्रधारो अत्यविः । वायोरिन्द्रस्य निष्कृतम् ॥

सोमः । पुनानः । अर्षति । सहस्रधारः । सहस्र । धारः । अत्यविः । अति । अविः । वायोः । इन्द्रस्य । निष्कृतम् । निः । कृतम् ॥११८७॥

Samveda - Mantra Number : 1187
(Kauthum) उत्तरार्चिकः: » Prapathak » 5; Ardh Prapathak » 1;
(Rananiya) उत्तरार्चिकः: » Adhyay » 9; Khand » 2;

Samveda Bhashyam (Acharya Ramnath Vedalankar)

संस्कृत
Samveda Bhashyam (Acharya Ramnath Vedalankar) - संस्कृत
Meaning
(पुनानः) पवित्रीकुर्वन् (सहस्रधारः) अनन्तधारः (सोमः) रसनिधिः परमेश्वरः (अत्यविः) अविं भूमिम् पार्थिवतत्त्वप्रधानम् अन्नमयकोशमिति यावत् अतिक्रान्तः सन्। [अविम् अतिक्रान्तः इति अत्यविः। ‘प्रादयो गताद्यर्थे द्वितीयया’। अ० २।२।१८ वा० इत्यनेन तत्पुरुषसमासः।] (वायोः) प्राणस्य गतिशीलस्य मनसो वा (इन्द्रस्य) बुद्धेर्जीवात्मनश्च (निष्कृतम्) गृहम्, प्राणलोकं मनोलोकं विज्ञानलोकं जीवात्मलोकं चेत्यर्थः (अर्षति) गच्छति ॥१॥
Essence
उपासको यदा स्थूलाद् देहान्मनो निवर्त्य प्राणे मनसि बुद्धौ जीवात्मनि च परमात्मानं प्रतिष्ठापयति तदा तद्रसधारामग्नः सन् स परमानन्दमनुभवति ॥१॥
Subject
तत्रादौ परमात्मानं वर्णयति।
Footnote
१. ऋ० ९।१३।१।