Samveda Bhashyam (Acharya Ramnath Vedalankar)

Samveda Mantra 1186

1875 Mantra
Devata- पवमानः सोमः Rishi- असितः काश्यपो देवलो वा Chhand- गायत्री Swara- षड्जः
Mantra with Swara
वृ꣣ष्टिं꣢ दि꣣वः꣡ परि꣢꣯ स्रव द्यु꣣म्नं꣡ पृ꣢थि꣣व्या꣡ अधि꣢꣯ । स꣡हो꣢ नः सोम पृ꣣त्सु꣡ धाः꣢ ॥११८६॥

वृ꣣ष्टि꣢म् । दि꣣वः꣡ । प꣡रि꣢꣯ । स्र꣣व । द्युम्न꣢म् । पृ꣣थिव्याः꣢ । अ꣡धि꣢꣯ । स꣡हः꣢꣯ । नः꣣ । सोम । पुत्सु꣢ । धाः꣢ ॥११८६॥

Mantra without Swara
वृष्टिं दिवः परि स्रव द्युम्नं पृथिव्या अधि । सहो नः सोम पृत्सु धाः ॥

वृष्टिम् । दिवः । परि । स्रव । द्युम्नम् । पृथिव्याः । अधि । सहः । नः । सोम । पुत्सु । धाः ॥११८६॥

Samveda - Mantra Number : 1186
(Kauthum) उत्तरार्चिकः: » Prapathak » 5; Ardh Prapathak » 1;
(Rananiya) उत्तरार्चिकः: » Adhyay » 9; Khand » 1;

Samveda Bhashyam (Acharya Ramnath Vedalankar)

संस्कृत
Samveda Bhashyam (Acharya Ramnath Vedalankar) - संस्कृत
Meaning
हे (सोम) सर्वसुखप्रेरक परमात्मन् ! त्वम् (दिवः) दिव्यात् आनन्दमयकोशात् (वृष्टिम्) आनन्दवर्षाम् (परिस्रव) परिक्षर। (पृथिव्याः अधि) पृथिव्याम्। [अधि सप्तम्यर्थानुवादः।] (द्युम्नम्) यशः तेजः च (परिस्रव) परिक्षर। (नः) अस्माकम् (पृत्सु)सेनासु। [पदादिषु मांसपृत्स्नूनामुपसंख्यानम्। अ० ६।१।६३ इति वार्तिकेन पृतनाशब्दस्य पृदादेशः।] (सहः) साहसं बलं च (धाः) धेहि ॥९॥
Essence
जगदीश्वरो यथाऽन्तरिक्षाद् जलधारां वर्षति तथा स्वकीयादानन्दकोशादानन्दधारा वर्षेत्। यथा स पृथिव्यां सुवर्णादिधनं दधाति तथा राष्ट्रे कीर्तिं तेजस्वितां च दधातु। यथा स राष्ट्रस्य सेनासु साहसं प्रेरयति तथाऽस्माकं सत्याहिंसादिदिव्यसेनासु बलं वेगं च निदध्यात् ॥९॥ अस्मिन् खण्डे परमात्मन आविर्भावस्य, तद्गुणकर्मणां, ब्रह्मानन्दरसस्य, जीवात्मनश्च वर्णनादेतत्खण्डस्य पूर्वखण्डेन संगतिरस्ति ॥
Subject
अथ पुनरपि तमेव विषयमाह।
Footnote
१. ऋ० ९।८।८।