Samveda Bhashyam (Acharya Ramnath Vedalankar)

Samveda Mantra 1185

1875 Mantra
Devata- पवमानः सोमः Rishi- असितः काश्यपो देवलो वा Chhand- गायत्री Swara- षड्जः
Mantra with Swara
नृ꣣च꣡क्ष꣢सं त्वा व꣣य꣡मिन्द्र꣢꣯पीतꣳ स्व꣣र्वि꣡द꣢म् । भ꣣क्षीम꣡हि꣢ प्र꣣जा꣡मिष꣢꣯म् ॥११८५॥

नृच꣡क्ष꣢꣯सम् । नृ꣣ । च꣡क्ष꣢꣯सम् । त्वा꣣ । वय꣢म् । इ꣡न्द्र꣢꣯पीतम् । इ꣡न्द्र꣢꣯ । पी꣣तम् । स्वर्वि꣡द꣢म् । स्वः꣣ । वि꣡द꣢꣯म् । भ꣣क्षीम꣡हि꣢ । प्र꣣जा꣢म् । प्र꣣ । जा꣢म् । इ꣡ष꣢꣯म् ॥११८५॥

Mantra without Swara
नृचक्षसं त्वा वयमिन्द्रपीतꣳ स्वर्विदम् । भक्षीमहि प्रजामिषम् ॥

नृचक्षसम् । नृ । चक्षसम् । त्वा । वयम् । इन्द्रपीतम् । इन्द्र । पीतम् । स्वर्विदम् । स्वः । विदम् । भक्षीमहि । प्रजाम् । प्र । जाम् । इषम् ॥११८५॥

Samveda - Mantra Number : 1185
(Kauthum) उत्तरार्चिकः: » Prapathak » 5; Ardh Prapathak » 1;
(Rananiya) उत्तरार्चिकः: » Adhyay » 9; Khand » 1;

Samveda Bhashyam (Acharya Ramnath Vedalankar)

संस्कृत
Samveda Bhashyam (Acharya Ramnath Vedalankar) - संस्कृत
Meaning
हे सोम जगत्स्रष्टः रसागार परमात्मन् ! (नृचक्षसम्) नृणां द्रष्टारम्, (इन्द्रपीतम्) इन्द्रैः त्वदुपासकैः जीवात्मभिः आस्वादितम्, (स्वर्विदम्) दिव्यप्रकाशस्य मोक्षसुखस्य वा लम्भकम् (त्वा) त्वाम् (वयम्) तवोपासकाः आह्वयामः इति शेषः। वयं त्वत् (प्रजाम्) सद्गुणसन्ततिम् (इषम्)आनन्दरसधारां च। [इषा अद्भिः इति निरुक्तम् (१०।२६)।] (भक्षीमहि) प्राप्नुयाम। [भज सेवायाम्, भ्वादिः, लिङि छान्दसः शपो लुक्] ॥८॥
Essence
परमेश्वरं ध्यायं ध्यायमुपासको दिव्यानन्दरसं मोक्षं च प्राप्तुं क्षमते ॥८॥
Subject
अथ परमात्मानं प्रार्थयते।
Footnote
१. ऋ० ९।८।९।