Samveda Bhashyam (Acharya Ramnath Vedalankar)

Samveda Mantra 1182

1875 Mantra
Devata- पवमानः सोमः Rishi- असितः काश्यपो देवलो वा Chhand- गायत्री Swara- षड्जः
Mantra with Swara
दे꣣वे꣡भ्य꣢स्त्वा꣣ म꣡दा꣢य꣣ क꣡ꣳ सृ꣢जा꣣न꣡मति꣢꣯ मे꣣꣬ष्यः꣢꣯ । सं꣡ गोभि꣢꣯र्वासयामसि ॥११८२॥

देवे꣡भ्यः꣢꣯ । त्वा꣣ । म꣡दा꣢꣯य । कम् । सृ꣣जान꣢म् । अ꣡ति꣢꣯ । मे꣣ष्यः꣢꣯ । सम् । गो꣡भिः꣢꣯ । वा꣣सयामसि ॥११८२॥

Mantra without Swara
देवेभ्यस्त्वा मदाय कꣳ सृजानमति मेष्यः । सं गोभिर्वासयामसि ॥

देवेभ्यः । त्वा । मदाय । कम् । सृजानम् । अति । मेष्यः । सम् । गोभिः । वासयामसि ॥११८२॥

Samveda - Mantra Number : 1182
(Kauthum) उत्तरार्चिकः: » Prapathak » 5; Ardh Prapathak » 1;
(Rananiya) उत्तरार्चिकः: » Adhyay » 9; Khand » 1;

Samveda Bhashyam (Acharya Ramnath Vedalankar)

संस्कृत
Samveda Bhashyam (Acharya Ramnath Vedalankar) - संस्कृत
Meaning
हे सोम जगत्स्रष्टः परमेश्वर ! (मेष्यः) मेषीः सेक्त्रीः आनन्दधाराः। [मिषु सेचने, भ्वादिः। अत्र वा छन्दसि सर्वे विधयो भवन्तीति पूर्वसवर्णदीर्घविकल्पनाद् यणि रूपम्।] (अति सृजानम्) विसृजन्तम्, (कम्) सुखस्वरूपम् (त्वा) त्वाम् (देवेभ्यः) आत्ममनोबुद्ध्यादिभ्यः। [षष्ठ्यर्थे चतुर्थी।] (मदाय) हर्षाय, वयम् (गोभिः) स्तुतिवाग्भिः (सं वासयामसि) सञ्छादयामः। [वस आच्छादने, णिजन्तः, इदन्तो मसि] ॥५॥
Essence
जगत्पतिः परमेश्वर उपासकानानन्दधाराभिः सिञ्चंस्तेषामात्ममनोबुद्ध्यादीनि च तर्पयंस्तानुपकरोति ॥५॥
Subject
अथ जगदीश्वरः सम्बोध्यते।
Footnote
१. ऋ० ९।८।५।