Samveda Bhashyam (Acharya Ramnath Vedalankar)

Samveda Mantra 1181

1875 Mantra
Devata- पवमानः सोमः Rishi- असितः काश्यपो देवलो वा Chhand- गायत्री Swara- षड्जः
Mantra with Swara
मृ꣣ज꣡न्ति꣢ त्वा꣣ द꣢श꣣ क्षि꣡पो꣢ हि꣣न्व꣡न्ति꣢ स꣣प्त꣢ धी꣣त꣡यः꣢ । अ꣢नु꣣ वि꣡प्रा꣢ अमादिषुः ॥११८१॥

मृ꣣ज꣡न्ति꣢ । त्वा꣣ । द꣡श꣢꣯ । क्षि꣡पः꣢꣯ । हि꣣न्व꣡न्ति꣢ । स꣣प्त꣢ । धी꣣त꣡यः꣢ । अ꣡नु꣢꣯ । वि꣡प्राः꣢꣯ । वि । प्राः꣣ । अमादिषुः ॥११८१॥

Mantra without Swara
मृजन्ति त्वा दश क्षिपो हिन्वन्ति सप्त धीतयः । अनु विप्रा अमादिषुः ॥

मृजन्ति । त्वा । दश । क्षिपः । हिन्वन्ति । सप्त । धीतयः । अनु । विप्राः । वि । प्राः । अमादिषुः ॥११८१॥

Samveda - Mantra Number : 1181
(Kauthum) उत्तरार्चिकः: » Prapathak » 5; Ardh Prapathak » 1;
(Rananiya) उत्तरार्चिकः: » Adhyay » 9; Khand » 1;

Samveda Bhashyam (Acharya Ramnath Vedalankar)

संस्कृत
Samveda Bhashyam (Acharya Ramnath Vedalankar) - संस्कृत
Meaning
हे सोम कर्मानुसारं मानवदेहे प्रेरित जीवात्मन् ! (दश क्षिपः) दशसंख्यकाः प्राणाः (त्वा) त्वाम् (मृजन्ति) अलङ्कुर्वन्ति [क्षिप्यन्ते स्वस्वस्थानेषु याः ताः क्षिपः।] किञ्च (सप्त धीतयः) सप्तसंख्यकानि मनोबुद्धिसहितानि पञ्च ज्ञानेन्द्रियाणि, त्वाम् (हिन्वन्ति) प्रीणयन्ति [हिवि प्रीणनार्थः, भ्वादिः।]। (विप्राः) मेधाविनो विद्वज्जनाः, त्वाम् (अनु अमादिषुः) अनुहर्षयन्ति। [अत्र लडर्थे लुङ्] ॥४॥
Essence
जीवात्मा परमेश्वरेण सर्वैः परमोत्कृष्टैः साधनैः सह शरीरं प्रवेशितोऽस्ति, अतस्तत्र निवसता तेन चरमोन्नतिः साधनीया ॥४॥
Subject
अथ जीवात्मविषय उच्यते।
Footnote
१. ऋ० ९।८।४।