Samveda Bhashyam (Acharya Ramnath Vedalankar)

Samveda Mantra 1180

1875 Mantra
Devata- पवमानः सोमः Rishi- असितः काश्यपो देवलो वा Chhand- गायत्री Swara- षड्जः
Mantra with Swara
इ꣡न्द्र꣢स्य सोम꣣ रा꣡ध꣢से पुना꣣नो꣡ हार्दि꣢꣯ चोदय । दे꣣वा꣢नां꣣ यो꣡नि꣢मा꣣स꣡द꣢म् ॥११८०॥

इ꣡न्द्र꣢꣯स्य । सो꣣म । रा꣡ध꣢꣯से । पु꣣नानः꣢ । हा꣡र्दि꣢꣯ । चो꣣दय । देवा꣡ना꣢म् । यो꣡नि꣢꣯म् । आ꣣स꣡द꣢म् । आ꣣ । स꣡द꣢꣯म् ॥११८०॥

Mantra without Swara
इन्द्रस्य सोम राधसे पुनानो हार्दि चोदय । देवानां योनिमासदम् ॥

इन्द्रस्य । सोम । राधसे । पुनानः । हार्दि । चोदय । देवानाम् । योनिम् । आसदम् । आ । सदम् ॥११८०॥

Samveda - Mantra Number : 1180
(Kauthum) उत्तरार्चिकः: » Prapathak » 5; Ardh Prapathak » 1;
(Rananiya) उत्तरार्चिकः: » Adhyay » 9; Khand » 1;

Samveda Bhashyam (Acharya Ramnath Vedalankar)

संस्कृत
Samveda Bhashyam (Acharya Ramnath Vedalankar) - संस्कृत
Meaning
हे (सोम) रसागार परमात्मन् ! (इन्द्रस्य) जीवात्मनः (राधसे) ऐश्वर्यप्राप्तये सिद्धिप्राप्तये वा (पुनानः) पवित्रतां प्रयच्छन् त्वम् (देवानाम्) दिव्यानां मुक्तजनानाम् (योनिम्) गृहं, मोक्षलोकमित्यर्थः (आसदम्) आसादयितुम् [अत्र आङ्पूर्वाद् णिज्गर्भात् षद्लृ धातोः तुमर्थे बाहुलकाच्छान्दसो णमुल् प्रत्ययः।] (हार्दि२) सर्वान् प्रति सौहार्दम्। [अत्र द्वितीयैकवचनस्य लुक्।] (चोदय) अस्मासु प्रेरय ॥३॥
Essence
लोकविद्वेषिणो जना मोक्षं प्राप्तुं न क्षमन्ते ॥३॥
Subject
अथ सोमः परमात्मा सम्बोध्यते।
Footnote
१. ऋ० ९।८।३, ‘ऋ॒तस्य॒ योनि॑मा॒सद॑म्’ इति तृतीयः पादः। २. हार्दि हृदये—इति वि०। हृदयसम्बन्धिस्थानम्—इति सा०।