Samveda Bhashyam (Acharya Ramnath Vedalankar)

Samveda Mantra 1179

1875 Mantra
Devata- पवमानः सोमः Rishi- असितः काश्यपो देवलो वा Chhand- गायत्री Swara- षड्जः
Mantra with Swara
पु꣣नाना꣡स꣢श्चमू꣣ष꣢दो꣣ ग꣡च्छ꣢न्तो वा꣣यु꣢म꣣श्वि꣡ना꣢ । ते꣡ नो꣢ धत्त सु꣣वी꣡र्य꣢म् ॥११७९॥

पु꣣नाना꣡सः꣢ । च꣣मूष꣡दः꣢ । च꣣मू । स꣡दः꣢꣯ । ग꣡च्छ꣢꣯न्तः । वा꣣यु꣢म् । अ꣣श्वि꣡ना꣢ । ते । नः꣣ । धत्त । सुवी꣡र्य꣢म् । सु꣣ । वी꣡र्य꣢꣯म् ॥११७९॥

Mantra without Swara
पुनानासश्चमूषदो गच्छन्तो वायुमश्विना । ते नो धत्त सुवीर्यम् ॥

पुनानासः । चमूषदः । चमू । सदः । गच्छन्तः । वायुम् । अश्विना । ते । नः । धत्त । सुवीर्यम् । सु । वीर्यम् ॥११७९॥

Samveda - Mantra Number : 1179
(Kauthum) उत्तरार्चिकः: » Prapathak » 5; Ardh Prapathak » 1;
(Rananiya) उत्तरार्चिकः: » Adhyay » 9; Khand » 1;

Samveda Bhashyam (Acharya Ramnath Vedalankar)

संस्कृत
Samveda Bhashyam (Acharya Ramnath Vedalankar) - संस्कृत
Meaning
(पुनानासः) पवित्रतां प्रयच्छन्तः, (चमूषदः) चम्वोः आत्मबुद्धिरूपयोः पात्रयोः स्थिताः, किं च (वायुम्) गतिशीलं मनः (अश्विना) आश्विनौ प्राणापानौ च (गच्छन्तः) प्राप्नुवन्तः (ते) ते यूयं सोमाः ब्रह्मानन्दरसाः (नः) अस्मभ्यम् (सुवीर्यम्) श्रेष्ठवीर्ययुक्तं दिव्यं धनम् (धत्त) प्रयच्छत ॥२॥
Essence
ब्रह्मानन्दे प्राप्ते सत्यात्ममनोबुद्धीनां पवित्रता प्राणापानयोः कार्यक्षमताऽऽध्यात्मिकं धनं च स्वयमेवोपासकं प्रति प्रद्रवन्ति ॥२॥
Subject
अथ पुनरपि ब्रह्मानन्दविषय उच्यते।
Footnote
१. ऋ० ९।८।२, ‘धत्त’ इत्यत्र ‘धान्तु’।