Samveda Bhashyam (Acharya Ramnath Vedalankar)

Samveda Mantra 1177

1875 Mantra
Devata- पवमानः सोमः Rishi- प्रतर्दनो दैवोदासिः Chhand- त्रिष्टुप् Swara- धैवतः
Mantra with Swara
च꣣मूष꣢च्छ्ये꣣नः꣡ श꣢कु꣣नो꣢ वि꣣भृ꣡त्वा꣢ गोवि꣣न्दु꣢र्द्र꣣प्स꣡ आयु꣢꣯धानि बि꣡भ्र꣢त् । अ꣣पा꣢मू꣣र्मि꣡ꣳ सच꣢꣯मानः समु꣣द्रं꣢ तु꣣री꣢यं꣣ धा꣡म꣢ महि꣣षो꣡ वि꣢वक्ति ॥११७७॥

च꣣मूष꣢त् । च꣣मू । स꣢त् । श्ये꣣नः꣢ । श꣣कुनः꣢ । वि꣣भृ꣡त्वा꣢ । वि꣣ । भृ꣡त्वा꣢꣯ । गो꣣विन्दुः꣢ । गो । विन्दुः꣢ । द्र꣣प्सः꣢ । आ꣡यु꣢꣯धानि । बि꣡भ्र꣢꣯त् । अ꣣पा꣢म् । ऊ꣣र्मि꣢म् । स꣡च꣢꣯मानः । स꣣मु꣢द्रम् । स꣣म् । उद्र꣢म् । तु꣣री꣡य꣢म् । धा꣡म꣢꣯ । म꣣हिषः꣢ । वि꣣वक्ति ॥११७७॥

Mantra without Swara
चमूषच्छ्येनः शकुनो विभृत्वा गोविन्दुर्द्रप्स आयुधानि बिभ्रत् । अपामूर्मिꣳ सचमानः समुद्रं तुरीयं धाम महिषो विवक्ति ॥

चमूषत् । चमू । सत् । श्येनः । शकुनः । विभृत्वा । वि । भृत्वा । गोविन्दुः । गो । विन्दुः । द्रप्सः । आयुधानि । बिभ्रत् । अपाम् । ऊर्मिम् । सचमानः । समुद्रम् । सम् । उद्रम् । तुरीयम् । धाम । महिषः । विवक्ति ॥११७७॥

Samveda - Mantra Number : 1177
(Kauthum) उत्तरार्चिकः: » Prapathak » 5; Ardh Prapathak » 1;
(Rananiya) उत्तरार्चिकः: » Adhyay » 9; Khand » 1;

Samveda Bhashyam (Acharya Ramnath Vedalankar)

संस्कृत
Samveda Bhashyam (Acharya Ramnath Vedalankar) - संस्कृत
Meaning
(चमूषत्) चम्वोः द्यावापृथिव्योः सीदति उपविष्टोऽस्ति यः सः, (श्येनः) शंसनीयकर्मा। [श्येनः शंसनीयं गच्छति। निरु० ४।२३।] (शकुनः) शक्तिशाली। [शक्नोतीति शकुनः। शक्लृ शक्तौ धातोः ‘शकेरुनोन्तोन्त्युनयः’ उ० ३।४९ इत्यनेन उन प्रत्ययः।] (विभृत्वा) विशेषेण भरणपोषणकर्ता। [अन्येभ्योऽपि दृश्यन्ते। अ० ३।२।७५। इत्यनेन डुभृञ् धारणपोषणयोः इत्यस्मात् क्वनिप् प्रत्ययः।] (गोविन्दुः२) गवां धेनूनां भूमीनां च लम्भकः। [विन्दुः इत्यत्र ‘विद्लृ लाभे’ धातोर्बाहुलकादौणादिक उः प्रत्ययः।] (द्रप्सः) आनन्दरसयुक्तः। [रसो वै सः। तै० उ० २।७ इत्युक्तेः। द्रप्सः इति जलबिन्दुवाचकः, यथा निरु० ५।१४ इत्यत्र।] (आयुधानि बिभ्रत्) शस्त्रास्त्राणि धारयन् सेनापतिरिव दण्डशक्तियुक्तः, (अपाम् ऊर्मिम्) उदकानाम् आच्छादकम्। [ऊर्मिः ऊर्णोतेः। निरु० ५।२३।] (समुद्रम्) अर्णवम् अन्तरिक्षं वा (सचमानः) श्रयमाणः। [षच सेचने सेवने च, भ्वादिः।] (महिषः) महान् स सोमः जगत्पतिः परमेश्वरः (तुरीयं धाम) पुरुषार्थचतुष्टयेषु चतुर्थं मोक्षमित्यर्थः (विवक्ति) उपदिशति। [वच परिभाषणे, अदादेर्लटि ‘जुहोत्यादिभ्यः श्लुः। बहुलं छन्दसि’ अ० २।४।७६ इत्यनेन शपः श्लुः। कुत्वं छान्दसम्] ॥ ननु पूर्वस्मिन् मन्त्रे मोक्षः ‘तृतीयं धाम’ इत्युक्तम्, अत्र च ‘तुरीयं धाम’ इति, तत् कथं संगच्छते, इति चेद् ब्रूमहे—प्रकृतिलोकः, जीवात्मलोकः, मोक्षलोकः इति तृतीयं धाम। धर्मः, अर्थः, कामः, मोक्षः इति चतुर्थं धाम ॥३॥
Essence
सर्वान्तर्यामिणं सर्वशक्तिमन्तं सज्जनानामुन्नायकं दुष्टानां दण्डकं जगदीश्वरमनुभूय सर्वदुःखेभ्यो मुक्तिः प्राप्तव्या ॥३॥
Subject
अथ पुनः परमात्मानं वर्णयति।
Footnote
१. ऋ० ९।९६।१९। २. गोविन्दुः यजमानानां गवां लम्भकः—इति सा०। गोविन्दुः गावः उदकं वाक् पृथिवी आदित्यरश्मयो वा, एतानि यो विन्दति स गोवित्। विद ज्ञाने, विद लाभे, विद सत्तायाम्—इति वि०।