Samveda Bhashyam (Acharya Ramnath Vedalankar)

Samveda Mantra 1176

1875 Mantra
Devata- पवमानः सोमः Rishi- प्रतर्दनो दैवोदासिः Chhand- त्रिष्टुप् Swara- धैवतः
Mantra with Swara
ऋ꣣षि꣢मना꣣ य꣡ ऋ꣢षि꣣कृ꣢त्स्व꣣र्षाः꣢ स꣣ह꣡स्र꣢नीथः पद꣣वीः꣡ क꣢वी꣣ना꣢म् । तृ꣣ती꣢यं꣣ धा꣡म꣢ महि꣣षः꣡ सिषा꣢꣯स꣣न्त्सो꣡मो꣢ वि꣣रा꣢ज꣣म꣡नु꣢ राजति꣣ ष्टु꣢प् ॥११७६॥

ऋ꣡षि꣢꣯मनाः । ऋ꣡षि꣢꣯ । म꣣नाः । यः꣢ । ऋ꣣षिकृ꣢त् । ऋ꣣षि । कृ꣢त् । स्व꣣र्षाः꣢ । स्वः꣣ । साः꣢ । स꣣ह꣡स्र꣢नीथः । स꣣ह꣡स्र꣢ । नी꣣थः । पदवीः꣢ । प꣣द । वीः꣢ । क꣣वीना꣢म् । तृ꣣ती꣡य꣢म् । धा꣡म꣢꣯ । म꣣हिषः꣢ । सि꣡षा꣢꣯सन् । सो꣡मः꣢꣯ । वि꣡रा꣡ज꣢म् । वि꣣ । रा꣡ज꣢꣯म् । अ꣡नु꣢꣯ । रा꣣जति । स्तु꣢प् ॥११७६॥

Mantra without Swara
ऋषिमना य ऋषिकृत्स्वर्षाः सहस्रनीथः पदवीः कवीनाम् । तृतीयं धाम महिषः सिषासन्त्सोमो विराजमनु राजति ष्टुप् ॥

ऋषिमनाः । ऋषि । मनाः । यः । ऋषिकृत् । ऋषि । कृत् । स्वर्षाः । स्वः । साः । सहस्रनीथः । सहस्र । नीथः । पदवीः । पद । वीः । कवीनाम् । तृतीयम् । धाम । महिषः । सिषासन् । सोमः । विराजम् । वि । राजम् । अनु । राजति । स्तुप् ॥११७६॥

Samveda - Mantra Number : 1176
(Kauthum) उत्तरार्चिकः: » Prapathak » 5; Ardh Prapathak » 1;
(Rananiya) उत्तरार्चिकः: » Adhyay » 9; Khand » 1;

Samveda Bhashyam (Acharya Ramnath Vedalankar)

संस्कृत
Samveda Bhashyam (Acharya Ramnath Vedalankar) - संस्कृत
Meaning
(यः ऋषिमनाः) ऋषिस्वभावः, (ऋषिकृत्) उपासकान् ऋषीन् करोतीति सः, (स्वर्षाः) आनन्दप्रदाता, (सहस्रनीथः) सहस्रनीतिः, (कवीनाम्) क्रान्तदर्शिनाम् (पदवीः) उच्चपदं प्रापयिता अस्ति, सः (महिषः) महान्, (स्तुप्) सर्वेषामाधारस्तम्भभूतः। [स्तुभु स्तम्भे, भ्वादिः।] (सोमः) जगदीश्वरः (तृतीयं धाम) मुक्तिपदम्। [प्रथमं धाम प्रकृतिः, द्वितीयं धाम जीवात्मा, तृतीयं च मोक्षः।] (सिषासन्) दातुमिच्छन्। [षणु दाने, सनि शत्रन्तः।] (विराजम्) विशेषेण दीप्तिमन्तं जनम् (अनुराजति) अनुरञ्जयति। [राजृ दीप्तौ, अत्र रञ्जनकर्मा] ॥२॥ अत्र ‘ऋषि’ इत्यस्यावृत्तौ लाटानुप्रासः, ‘राज’ इत्यस्यावृत्तौ च यमकम् ॥२॥
Essence
यः परमेश्वरः जनानृषिपदं प्रापय्य मोक्षं प्रयच्छति तमुपास्य सर्वे सौभाग्यवन्तो जायन्ताम् ॥२॥
Subject
अथ परमात्मनो गुणकर्माणि वर्णयति।
Footnote
१. ऋ० ९।९६।१८।