Samveda Bhashyam (Acharya Ramnath Vedalankar)

Samveda Mantra 1175

1875 Mantra
Devata- पवमानः सोमः Rishi- प्रतर्दनो दैवोदासिः Chhand- त्रिष्टुप् Swara- धैवतः
Mantra with Swara
शि꣡शुं꣢ जज्ञा꣣न꣡ꣳ ह꣢र्य꣣तं꣡ मृ꣢जन्ति शु꣣म्भ꣢न्ति꣣ वि꣡प्रं꣢ म꣣रु꣡तो꣢ ग꣣णे꣡न꣢ । क꣣वि꣢र्गी꣣र्भिः꣡ काव्ये꣢꣯ना क꣣विः꣡ सन्त्सोमः꣢꣯ प꣣वि꣢त्र꣣म꣡त्ये꣢ति꣣ रे꣡भ꣢न् ॥११७५॥

शि꣡शु꣢꣯म् । ज꣣ज्ञान꣢म् । ह꣣र्यत꣢म् । मृ꣣जन्ति । शुम्भ꣡न्ति꣢ । वि꣡प्र꣢꣯म् । वि । प्र꣣म् । मरु꣡तः꣢ । ग꣣णे꣡न꣢ । क꣣विः꣢ । गी꣣र्भिः꣢ । का꣡व्ये꣢꣯न । क꣣विः꣢ । सन् । सो꣡मः꣢꣯ । प꣣वि꣡त्र꣢म् । अ꣡ति꣢꣯ । ए꣣ति । रे꣡भ꣢꣯न् ॥११७५॥

Mantra without Swara
शिशुं जज्ञानꣳ हर्यतं मृजन्ति शुम्भन्ति विप्रं मरुतो गणेन । कविर्गीर्भिः काव्येना कविः सन्त्सोमः पवित्रमत्येति रेभन् ॥

शिशुम् । जज्ञानम् । हर्यतम् । मृजन्ति । शुम्भन्ति । विप्रम् । वि । प्रम् । मरुतः । गणेन । कविः । गीर्भिः । काव्येन । कविः । सन् । सोमः । पवित्रम् । अति । एति । रेभन् ॥११७५॥

Samveda - Mantra Number : 1175
(Kauthum) उत्तरार्चिकः: » Prapathak » 5; Ardh Prapathak » 1;
(Rananiya) उत्तरार्चिकः: » Adhyay » 9; Khand » 1;

Samveda Bhashyam (Acharya Ramnath Vedalankar)

संस्कृत
Samveda Bhashyam (Acharya Ramnath Vedalankar) - संस्कृत
Meaning
(शिशुं जज्ञानम्) उत्पद्यमानं शिशुमिव अन्तरात्मनि प्रकटीभवन्तम्, (हर्यतम्) प्रियं (तं सोमं) परमात्मानम्, उपासकाः जनाः (मृजन्ति) स्तोत्रैः अलङ्कुर्वन्ति। (विप्रम्) विशेषेण पूरकं मेधाविनं तं परमात्मानम् (मरुतः) प्राणाः (गणेन) तरङ्गसमूहे (शुम्भन्ति) प्रसाधयन्ति। (गीर्भिः) प्रेरिकाभिर्वाग्भिः (कविः) दिव्यसन्देशप्रदाता (काव्येन) वेदकाव्येन च (कविः) काव्यकारः (सन्) भवन् (सोमः) सन्मार्गे प्रेरकः परमेश्वरः (रेभन्) उपदिशन् (पवित्रम् अत्येति) परिपूतं हृदयमतिक्रम्य अन्तरात्मानम् प्राप्नोति ॥१॥ ‘शिशुं जज्ञानम्’ इत्यत्र लुप्तोपमालङ्कारः ॥१॥
Essence
स्वान्तरात्मनि परमेश्वरमाविर्भाव्य स भक्तिभावभरितैः स्तोत्रैर्भूयोभूयोऽङ्करणीयः प्रसादनीयश्च ॥१॥
Subject
तत्रादौ परमात्माविर्भावं वर्णयति।
Footnote
१. ऋ० ९।९६।१७।