Samveda Bhashyam (Acharya Ramnath Vedalankar)

Samveda Mantra 1174

1875 Mantra
Devata- इन्द्रः Rishi- अत्रिर्भौमः Chhand- अनुष्टुप् Swara- गान्धारः
Mantra with Swara
य꣡त्ते꣢ दि꣣क्षु꣢ प्र꣣रा꣢ध्यं꣣ म꣢नो꣣ अ꣡स्ति꣢ श्रु꣣तं꣢ बृ꣣ह꣢त् । ते꣡न꣢ दृ꣣ढा꣡ चि꣢दद्रिव꣣ आ꣡ वाजं꣢꣯ दर्षि सा꣣त꣡ये꣢ ॥११७४॥

यत् । ते꣣ । दिक्षु꣢ । प्र꣣रा꣡ध्य꣢म् । प्र꣣ । रा꣡ध्य꣢꣯म् । म꣡नः꣢꣯ । अ꣡स्ति꣢꣯ । श्रु꣣त꣢म् । बृ꣣ह꣢त् । ते꣡न꣢꣯ । दृ꣣ढा꣢ । चि꣣त् । अद्रिवः । अ । द्रिवः । आ꣢ । वा꣡ज꣢꣯म् । द꣣र्षि । सात꣡ये꣢ ॥११७४॥

Mantra without Swara
यत्ते दिक्षु प्रराध्यं मनो अस्ति श्रुतं बृहत् । तेन दृढा चिदद्रिव आ वाजं दर्षि सातये ॥

यत् । ते । दिक्षु । प्रराध्यम् । प्र । राध्यम् । मनः । अस्ति । श्रुतम् । बृहत् । तेन । दृढा । चित् । अद्रिवः । अ । द्रिवः । आ । वाजम् । दर्षि । सातये ॥११७४॥

Samveda - Mantra Number : 1174
(Kauthum) उत्तरार्चिकः: » Prapathak » 4; Ardh Prapathak » 2;
(Rananiya) उत्तरार्चिकः: » Adhyay » 8; Khand » 6;

Samveda Bhashyam (Acharya Ramnath Vedalankar)

संस्कृत
Samveda Bhashyam (Acharya Ramnath Vedalankar) - संस्कृत
Meaning
हे इन्द्र परमात्मन् आचार्य वा ! (यत् ते) यत् तव (प्रराध्यम्) प्रसादयितुमर्हम् (बृहत् मनः) विपुलशक्तिं मानसम् (दिक्षु) दिशासु (श्रुतम्) प्रसिद्धम् (अस्ति) विद्यते, (तेन) मनसा, हे (अद्रिवः) अविदीर्णबल ! त्वम् (दृढा चित्) कठिनमपि दुष्प्राप्यमपि। [सुपां सुलुक्० अ० ७।१।३९ इति द्वितीयैकवचनस्य आकारादेशः।] (वाजम्) धर्मविद्यादिधनम् (सातये) अस्मासु प्राप्तये (आदर्षि) आनय। [दॄ विदारणे, क्र्यादिः, छान्दसो विकरणस्य लुक्] ॥३॥२
Essence
परमेश्वर आचार्यश्च सत्पात्रेभ्यो जनेभ्यो धर्ममार्गं सुशिक्ष्य विद्यादिदानं कृत्वा पुरुषार्थं प्रेरयित्वा तान् परमैश्वर्यवतः कुरुतः ॥३॥ अस्मिन् खण्डे परमात्मन आचार्यस्य च गुणवर्णनात् तदाह्वानात् ततः प्रार्थनाच्चैतत्खण्डस्य पूर्वखण्डेन संगतिर्वेदितव्या ॥ इति बरेलीमण्डलान्तर्गतफरीदपुरवास्तव्यश्रीमद्गोपाल-रामभगवतीदेवी तनयेन हरिद्वारीयगुरुकुलकाङ्गड़ीविश्वविद्यालयेऽधीतविद्येन विद्यामार्तण्डेन आचार्यरामनाथवेदालङ्कारेण महर्षिदयानन्द सरस्वतीस्वामिकृतवेदभाष्यशैलीमनुसृत्य विरचिते संस्कृतार्यभाषाभ्यां समन्विते सुप्रमाणयुक्ते सामवेदभाष्ये उत्तरार्चिके चतुर्थः प्रपाठकः समाप्तिमगात् ॥
Subject
अथ पुनस्तमेव विषयमाह।
Footnote
१. ऋ० ५।३९।३, ‘दिक्षु’ इत्यत्र ‘दि॒त्सु’। २. दयानन्दर्षिणा ऋग्भाष्ये मन्त्रोऽयं विद्वत्परो व्याख्यातः।