Samveda Bhashyam (Acharya Ramnath Vedalankar)

Samveda Mantra 1173

1875 Mantra
Devata- इन्द्रः Rishi- अत्रिर्भौमः Chhand- अनुष्टुप् Swara- गान्धारः
Mantra with Swara
य꣡न्मन्य꣢꣯से꣣ व꣡रे꣢ण्य꣣मि꣡न्द्र꣢ द्यु꣣क्षं꣡ तदा भ꣢꣯र । वि꣣द्या꣢म꣣ त꣡स्य꣢ ते व꣣य꣡मकू꣢꣯पारस्य दा꣣व꣡नः꣢ ॥११७३॥

य꣢त् । म꣡न्य꣢꣯से । व꣡रे꣢꣯ण्यम् । इ꣡न्द्र꣢꣯ । द्यु꣣क्ष꣢म् । द्यु꣣ । क्ष꣢म् । तत् । आ । भ꣣र । विद्या꣡म꣢ । त꣡स्य꣢꣯ । ते꣣ । वय꣢म् । अ꣡कू꣢꣯पारस्य । दावनः ॥११७३॥

Mantra without Swara
यन्मन्यसे वरेण्यमिन्द्र द्युक्षं तदा भर । विद्याम तस्य ते वयमकूपारस्य दावनः ॥

यत् । मन्यसे । वरेण्यम् । इन्द्र । द्युक्षम् । द्यु । क्षम् । तत् । आ । भर । विद्याम । तस्य । ते । वयम् । अकूपारस्य । दावनः ॥११७३॥

Samveda - Mantra Number : 1173
(Kauthum) उत्तरार्चिकः: » Prapathak » 4; Ardh Prapathak » 2;
(Rananiya) उत्तरार्चिकः: » Adhyay » 8; Khand » 6;

Samveda Bhashyam (Acharya Ramnath Vedalankar)

संस्कृत
Samveda Bhashyam (Acharya Ramnath Vedalankar) - संस्कृत
Meaning
हे (इन्द्र) परमैश्वर्यवन् जगदीश्वर आचार्य वा ! (यत्) यत् त्वम् (वरेण्यम्) वरितुं ग्रहीतुमर्हम् (मन्यसे) जानासि (तत् द्युक्षम्) धर्मविद्याप्रकाशनिवासकं स्वकीयं दानम्। [द्यां प्रकाशं क्षाययति निवासयति यत् तादृशम्।] (आ भर) अस्मान् प्रापय। (ते) तव (अकूपारस्य) अकुत्सितः पारः पूरणं संग्रहः यस्य तादृशस्य (तस्य दावनः) दानस्य।[द्वितीयार्थे षष्ठी।] (वयम्) त्वदुपासकाः (विद्याम)लभेमहि। [‘विद्याम तस्य ते वयमकुपरणस्य दानस्य’इति निरुक्तम्। ४।१८] ॥२॥२
Essence
परमेश्वरस्याचार्यस्य च यत् सद्गुणविद्याधर्मसदाचारादिदानमस्ति तत् प्राप्य वयं स्वात्मानमुन्नयेम ॥२॥
Subject
अथ पुनः परमेश्वराचार्ययोर्विषयमाह।
Footnote
१. ऋ० ५।३९।२, ‘दा॒वने॑’ इति पाठः। २. ऋग्भाष्ये दयानन्दर्षिर्मन्त्रमिमं विद्वत्पक्षे व्याख्यातवान्।