Samveda Bhashyam (Acharya Ramnath Vedalankar)

Samveda Mantra 1172

1875 Mantra
Devata- इन्द्रः Rishi- अत्रिर्भौमः Chhand- अनुष्टुप् Swara- गान्धारः
Mantra with Swara
य꣡दि꣢न्द्र चित्र म इ꣣ह꣢꣫ नास्ति꣣ त्वा꣡दा꣢तमद्रिवः । रा꣢ध꣣स्त꣡न्नो꣢ विदद्वस उभयाह꣣स्त्या꣡ भ꣢र ॥११७२॥

य꣢त् । इ꣣न्द्र । चित्र । मे । इह꣢ । न । अ꣡स्ति꣢꣯ । त्वा꣡दा꣢꣯तम् । त्वा । दा꣣तम् । अद्रिवः । अ । द्रिवः । रा꣡धः꣢꣯ । तत् । नः꣣ । विदद्वसो । विदत् । वसो । उभयाहस्ति । आ । भर ॥११७२॥

Mantra without Swara
यदिन्द्र चित्र म इह नास्ति त्वादातमद्रिवः । राधस्तन्नो विदद्वस उभयाहस्त्या भर ॥

यत् । इन्द्र । चित्र । मे । इह । न । अस्ति । त्वादातम् । त्वा । दातम् । अद्रिवः । अ । द्रिवः । राधः । तत् । नः । विदद्वसो । विदत् । वसो । उभयाहस्ति । आ । भर ॥११७२॥

Samveda - Mantra Number : 1172
(Kauthum) उत्तरार्चिकः: » Prapathak » 4; Ardh Prapathak » 2;
(Rananiya) उत्तरार्चिकः: » Adhyay » 8; Khand » 6;

Samveda Bhashyam (Acharya Ramnath Vedalankar)

संस्कृत
Samveda Bhashyam (Acharya Ramnath Vedalankar) - संस्कृत
Meaning
हे (चित्र) अद्भुत, (अद्रिवः) अविदीर्णगुण। [न केनापि दीर्यते यस्तत्सम्बुद्धौ।] (विदद्वसो) लब्धधन (इन्द्र) जगदीश आचार्य वा ! (त्वादातम्) त्वया शोधितम्। [दातम् दैप् शोधने, निष्ठा।] (यत् राधः) यद् आत्मबलधर्मविद्यादिधनम् (मे) मम (इह) अत्र (न अस्ति) न विद्यते, (तत्) धनम् त्वम् (उभयाहस्ति) उभाभ्यां हस्ताभ्यां यथा कस्मैचिद् दीयते तथा (नः) अस्मभ्यम् (आ भर) आहर ॥१॥२ यास्काचार्येण मन्त्रोऽयं निरुक्ते ४।४ इत्यत्र व्याख्यातः।
Essence
परमेशस्याचार्यस्य च कृपया शुद्धस्य भौतिकस्य च धनस्य वयमधिपतयः स्याम ॥१॥ परमेश्वर और आचार्य की कृपा से शुद्ध दिव्य और भौतिक धन के हम अधिपति हो जाएँ ॥१॥
Subject
तत्र प्रथमा ऋक् पूर्वार्चिके ३४५ क्रमाङ्के परमात्मनृपत्योर्विषये व्याख्याता। अत्र परमात्मन आचार्यस्य च विषयो निरूप्यते।
Footnote
१. ऋ० ५।३९।१, ‘मे॒हनास्ति॒’ इति भेदः। साम० ३४५। २. ऋग्भाष्ये दयानन्दर्षिर्मन्त्रमिमं राजप्रजापक्षे व्याचष्टे।