Samveda Bhashyam (Acharya Ramnath Vedalankar)

Samveda Mantra 1171

1875 Mantra
Devata- इन्द्रः Rishi- नृमेध आङ्गिरसः Chhand- पुर उष्णिक् Swara- ऋषभः
Mantra with Swara
त्वा꣡ꣳ शु꣢ष्मिन्पुरुहूत वाज꣣य꣢न्त꣣मु꣡प꣢ ब्रुवे सहस्कृत । स꣡ नो꣢ रास्व सु꣣वी꣡र्य꣢म् ॥११७१॥

त्वा꣢म् । शु꣣ष्मिन् । पुरुहूत । पुरु । हूत । वाजय꣡न्त꣢म् । उ꣡प꣢꣯ । ब्रु꣣वे । सहस्कृत । सहः । कृत । सः꣢ । नः꣣ । रास्व । सुवी꣡र्य꣢म् । सु꣣ । वी꣡र्य꣢꣯म् ॥११७१॥

Mantra without Swara
त्वाꣳ शुष्मिन्पुरुहूत वाजयन्तमुप ब्रुवे सहस्कृत । स नो रास्व सुवीर्यम् ॥

त्वाम् । शुष्मिन् । पुरुहूत । पुरु । हूत । वाजयन्तम् । उप । ब्रुवे । सहस्कृत । सहः । कृत । सः । नः । रास्व । सुवीर्यम् । सु । वीर्यम् ॥११७१॥

Samveda - Mantra Number : 1171
(Kauthum) उत्तरार्चिकः: » Prapathak » 4; Ardh Prapathak » 2;
(Rananiya) उत्तरार्चिकः: » Adhyay » 8; Khand » 6;

Samveda Bhashyam (Acharya Ramnath Vedalankar)

संस्कृत
Samveda Bhashyam (Acharya Ramnath Vedalankar) - संस्कृत
Meaning
हे (शुष्मिन्) बलवन्, (पुरुहूत) बहुभिः आहूत, (सहस्कृत) बलप्रद जगदीश्वर ! (वाजयन्तं त्वाम्) बलं परेषां कामयमानम् त्वाम्, अहम् (उपब्रुवे) प्रार्थये। (सः) असौ त्वम् (नः) अस्मभ्यम् (सुवीर्यम्) सुबलोपेतं सन्तानम् (रास्व) प्रयच्छ ॥३॥
Essence
वयमस्माकं सन्तानाश्च बलवन्तो भूत्वा शत्रून् पराजित्य स्वकीयं चक्रवर्तिराज्यं संस्थाप्य धर्मेण प्रजाः पालयेमहि ॥३॥
Subject
अथ पुनः परमात्मा प्रार्थ्यते।
Footnote
१. ऋ० ८।९८।१२, अथ० २०।१०८।३, उभयत्र ‘सहस्कृत’ इत्यत्र ‘शतक्रतो’।