Samveda Bhashyam (Acharya Ramnath Vedalankar)

Samveda Mantra 117

1875 Mantra
Devata- इन्द्रः Rishi- हर्यतः प्रागाथः Chhand- गायत्री Swara- षड्जः Kaand Name- ऐन्द्रं काण्डम् Gaan- प्रकृति गान Gaan Parva- ऐन्द्रं पर्व
Mantra with Swara
गा꣢व꣣ उ꣡प꣢ वदाव꣣टे꣢ म꣣हि꣢ य꣣ज्ञ꣡स्य꣢ र꣣प्सु꣡दा꣢ । उ꣣भा꣡ कर्णा꣢꣯ हिर꣣ण्य꣡या꣢ ॥११७॥

गा꣡वः꣢꣯ । उ꣡प꣢꣯ । व꣣द । अवटे꣢ । म꣣ही꣡इति꣢ । य꣣ज्ञ꣡स्य꣢ । र꣣प्सु꣡दा꣢ । र꣣प्सु꣢ । दा꣣ । उभा꣢ । क꣡र्णा꣢꣯ । हि꣣रण्य꣡या꣢ ॥११७॥

Mantra without Swara
गाव उप वदावटे महि यज्ञस्य रप्सुदा । उभा कर्णा हिरण्यया ॥

गावः । उप । वद । अवटे । महीइति । यज्ञस्य । रप्सुदा । रप्सु । दा । उभा । कर्णा । हिरण्यया ॥११७॥

Samveda - Mantra Number : 117
(Kauthum) पूर्वार्चिकः: » Prapathak » 2; Ardh Prapathak » 1; Dashati » 3;
(Rananiya) पूर्वार्चिकः: » Adhyay » 2; Khand » 1;

Samveda Bhashyam (Acharya Ramnath Vedalankar)

संस्कृत
Samveda Bhashyam (Acharya Ramnath Vedalankar) - संस्कृत
Meaning
हे (गावः२) स्तोतारः ! गौः इति स्तोतृनाम। निघं० ३।१६। यूयम् (अवटे३) विविधरसानां कूपभूते इन्द्रे परमेश्वरे परमेश्वरमुपजीव्येत्यर्थः। अत्र विषयसप्तमी। अवतः, अवटः इति कूपनामसु पठिते। निघं० २।२३। (उपवद) उपवदत महिमानमुपगायत। अत्र अनात्मनेपदेऽपि छान्दसस्तकारलोपः, व्यत्ययो वा। (मही४) महत्यौ द्यावापृथिव्यौ। मही इति द्यावापृथिव्योर्नाम। निघं० ३।३०। मह्यौ इति प्राप्ते सुपां सुलुक्० अ० ७।१।३९ इति पूर्वसवर्णदीर्घः। (यज्ञस्य) यजनीयस्य तस्य इन्द्राख्यस्य परमेश्वरस्य (रप्सु-दा५) रप्सुदे स्वरूपप्रकाशयित्र्यौ स्तः। (उभा) उभौ (हिरण्यया) हिरण्मयौ सूर्याचन्द्रमसौ, ययोः द्यावापृथिव्योः (कर्णा६) कर्णौ, कर्णकुण्डले इव स्तः। रप्सुदा, उभा, कर्णा, हिरण्यया इति सर्वत्र सुपां सुलुक्०।’ अ० ७।१।३९ इति प्रथमाद्विवचनस्य आकारादेशः। हिरण्यया इत्यत्र ऋत्व्यवास्त्व्यवास्त्वमाध्वीहिरण्ययानि च्छन्दसि।’ अ० ६।४।१७५ इति निपातनाद् हिरण्यशब्दाद् विहितस्य मयटो मकारस्य लोपः ॥३॥ उभा कर्णा हिरण्यया इत्यत्र व्यङ्ग्योत्प्रेक्षालङ्कारः। कर्णकुण्डले इति विवक्षायां कर्णा इत्यस्य प्रयोगे च लक्षणा। इन्द्रे अवटत्वारोपाच्च रूपकम् ॥३॥
Essence
यः परमेश्वरो दयावीरताऽऽनन्दादिरसानां कूप इव वर्तते, सर्वैर्जनैः स्वकीयाभिः स्तुतिवाग्भिस्तन्महिमाऽवश्यं गेयः। यद्यप्यसौ निराकारः गौरकृष्णहरितपीतादिरूपरहितश्च, तथापि तद्भक्ता द्यावापृथिव्योर्नानाविधेषु चित्रविचित्रेषु पदार्थेषु तस्यैव स्वरूपं निभालयन्ति, तस्यैव भासा सर्वमिदं विभातीति च बुद्धिं कुर्वन्ति। अत एव द्यावापृथिव्यौ तस्य स्वरूपप्रकाशिके वर्णिते ॥३॥
Subject
अथ स्तोतारः प्रेर्यन्ते।
Footnote
१. ऋ० ८।७२।१२, देवता १अग्निर्हवींषि वा। य० ३३।१९, ऋषिः पुरुमीढाजमीढौ, देवते इन्द्रवायू, ३३।७१ ऋषिः वसिष्ठः, देवते मित्रावरुणौ। सर्वत्र उपवदावटे इत्यत्र उपावतावतं इति पाठः। सा० १६०२। २. हे गावः मदीया वाचः—इति वि०। गावः गाः धर्मदोग्ध्रीः उपवद उपस्तुहि हे अध्वर्यो—इति भ०। हे गावः धर्मदुघाः—इति सा०। ३. अवट इति अपठितमपि मेघनाम द्रष्टव्यम्—इति वि०। महावीरोऽत्रावट उच्यते। महावीरनिमित्ते—इति भ०। अवटे अवटं महावीरं प्रति—इति सा०। ४. मही शब्दः पदपाठे महीइति इत्येवम् इतिकरणाद् द्विवचनान्त एव। ५. (रप्सुदा) ये रप्सुं रूपं दत्तस्ते इति य० ३३।१९ भाष्ये, सुरूपप्रदे इति च य० ३३।७१ भाष्ये द०। रप्सु इति रूपनाम, ये तद् दत्तः ते रप्सुदे, यज्ञस्य रूपदे इत्यर्थः—इति वि०। रपेः शब्दकर्मणो रपिः स्तुतिः तत्र सदनं रप्सुदा, अकारस्योकारो व्यत्ययात्—इति भ०। रप्सुदा रप्सुदे आरिप्सोः फलदे। रिप्सोः अश्विनोः दातव्ये वा। यद् वा रपणं शब्दनं, रप् मन्त्रः तेन सुदातव्ये। अथवा षुद क्षरणे, रपा मन्त्रेण क्षारणीये दोहनीये गवाजयोः पयसी—इति सा०। ६. उभौ कर्णौ हिरण्ययौ यस्य (मेघस्य)। अस्ति पुनः क्वचिदन्यत्रापि हिरण्यकर्णत्वं मेघस्य ? अस्तीति ब्रूमः, हिरण्यकर्णं मणिग्रीवम् (ऋ० १।१२२।१४) इत्यत्र—इति वि०। अपि च अस्य महावीरस्य उभा उभौ कर्णा कर्णस्थानीयौ द्वौ रुक्मौ हिरण्यया हिरण्मयौ सुवर्णरजतमयौ—इति सा०।