Samveda Bhashyam (Acharya Ramnath Vedalankar)

Samveda Mantra 1169

1875 Mantra
Devata- इन्द्रः Rishi- नृमेध आङ्गिरसः Chhand- ककुप् Swara- ऋषभः
Mantra with Swara
त्वं꣡ न꣢ इ꣣न्द्रा꣡ भ꣢र꣣ ओ꣡जो꣢ नृ꣣म्ण꣡ꣳ श꣢तक्रतो विचर्षणे । आ꣢ वी꣣रं꣡ पृ꣢तना꣣स꣡ह꣢म् ॥११६९॥

त्व꣢म् । नः꣣ । इन्द्र । आ꣢ । भ꣣र । ओ꣡जः꣢꣯ । नृ꣣म्ण꣢म् । श꣣तक्रतो । शत । क्रतो । विचर्षणे । वि । चर्षणे । आ꣢ । वी꣣र꣢म् । पृ꣣तनास꣡ह꣢म् । पृतना । सहम् ॥११६९॥

Mantra without Swara
त्वं न इन्द्रा भर ओजो नृम्णꣳ शतक्रतो विचर्षणे । आ वीरं पृतनासहम् ॥

त्वम् । नः । इन्द्र । आ । भर । ओजः । नृम्णम् । शतक्रतो । शत । क्रतो । विचर्षणे । वि । चर्षणे । आ । वीरम् । पृतनासहम् । पृतना । सहम् ॥११६९॥

Samveda - Mantra Number : 1169
(Kauthum) उत्तरार्चिकः: » Prapathak » 4; Ardh Prapathak » 2;
(Rananiya) उत्तरार्चिकः: » Adhyay » 8; Khand » 6;

Samveda Bhashyam (Acharya Ramnath Vedalankar)

संस्कृत
Samveda Bhashyam (Acharya Ramnath Vedalankar) - संस्कृत
Meaning
हे (शतक्रतो) बहुप्रज्ञ, (विचर्षणे) शिष्याणां द्रष्टः (इन्द्र) क्षात्रधर्मशिक्षक आचार्य ! (त्वम् नः) अस्मभ्यम् (ओजः) उत्साहम् (नृम्णम्) बलं च (आ भर२) आहर। अपि च (पृतनासहम्) शत्रुसेनापराजेतारम् (वीरम्) शूरं क्षत्रियं योद्धारम् (आ) आहर ॥१॥
Essence
तत्तद्विद्यानिष्णातो गुरुरेव ब्राह्मणं वा क्षत्रियं वा वैश्यं वा राष्ट्राय जनयति ॥१॥
Subject
तत्र प्रथमा ऋक् पूर्वार्चिके ४०५ क्रमाङ्के परमात्मनृपत्योर्विषये व्याख्याता। अत्र क्षात्रधर्मशिक्षक आचार्य उच्यते।
Footnote
१. ऋ० ८।९८।१०, अथ० २०।१०८।१, उभयत्र ‘भ॑रँ॒, पृ॑तना॒षह॑म्’ इति भेदः। साम० ४०५। २. संहितायाम् ‘भर ओजः’ इत्यत्र ‘भरौजः’ इति वृद्धिरेकादेशो न भवति, ‘ओजि। ऋक्तन्त्रम् ८६’ पदादौ ओजि परे पूर्वो न सन्निकृष्यते इति नियमात्।