Samveda Bhashyam (Acharya Ramnath Vedalankar)

Samveda Mantra 1167

1875 Mantra
Devata- अग्निः Rishi- वत्सः काण्वः Chhand- गायत्री Swara- षड्जः
Mantra with Swara
पु꣣रुत्रा꣢꣫ हि स꣣दृङ्ङ꣢꣫सि꣣ दि꣢शो꣣ वि꣢श्वा꣣ अ꣡नु꣢ प्र꣣भुः꣢ । स꣣म꣡त्सु꣢ त्वा हवामहे ॥११६७॥

पु꣣रुत्रा꣢ । हि । स꣣दृ꣢ङ् । स꣣ । दृ꣢ङ् । अ꣡सि꣢꣯ । दि꣡शः꣢꣯ । वि꣡श्वाः꣢꣯ । अ꣡नु꣢꣯ । प्र꣣भुः꣢ । प्र꣣ । भुः । स꣣म꣡त्सु꣢ । स꣣ । म꣡त्सु꣢꣯ । त्वा꣣ । ह꣣वा꣡म꣢हे ॥११६७॥

Mantra without Swara
पुरुत्रा हि सदृङ्ङसि दिशो विश्वा अनु प्रभुः । समत्सु त्वा हवामहे ॥

पुरुत्रा । हि । सदृङ् । स । दृङ् । असि । दिशः । विश्वाः । अनु । प्रभुः । प्र । भुः । समत्सु । स । मत्सु । त्वा । हवामहे ॥११६७॥

Samveda - Mantra Number : 1167
(Kauthum) उत्तरार्चिकः: » Prapathak » 4; Ardh Prapathak » 2;
(Rananiya) उत्तरार्चिकः: » Adhyay » 8; Khand » 6;

Samveda Bhashyam (Acharya Ramnath Vedalankar)

संस्कृत
Samveda Bhashyam (Acharya Ramnath Vedalankar) - संस्कृत
Meaning
हे अग्ने सर्वान्तर्यामिन् परमात्मन् ! त्वम् (पुरुत्रा) बहुषु, सर्वेष्वेवेति भावः। [देवमनुष्यपुरुषपुरुमर्त्येभ्यो द्वितीयासप्तम्योर्बहुलम्। अ० ५।४।५६ इत्यनेन पुरुशब्दात् सप्तम्यर्थे त्रा प्रत्ययः।] (सदृङ्) समानद्रष्टा (असि) वर्तसे। (विश्वाः दिशः अनु) सर्वाः दिशः अनुलक्ष्य, सर्वेषु क्षेत्रेष्वित्यर्थः (प्रभुः) समर्थोऽसि। वयम् (समत्सु) आन्तरेषु बाह्येषु च देवासुरसंग्रामेषु। [समदः इति संग्रामनाम। निघं० २।१७।] (त्वा) त्वाम् (हवामहे) आह्वयामः ॥२॥
Essence
यः पक्षपातरहितः सर्वत्र समर्थः परमेश्वरो विपत्काले शक्तिप्रदानेन रक्षति स सर्वैर्ध्यातव्यः ॥२॥
Subject
अथ परमात्मानं स्तुवन् तमाह्वयति।
Footnote
१. ऋ० ८।११।८, ४३।२१ उभयत्र ‘विशो॒ विश्वा॒’ इति पाठः।