Samveda Bhashyam (Acharya Ramnath Vedalankar)

Samveda Mantra 1166

1875 Mantra
Devata- अग्निः Rishi- वत्सः काण्वः Chhand- गायत्री Swara- षड्जः
Mantra with Swara
आ꣡ ते꣢ व꣣त्सो꣡ मनो꣢꣯ यमत्पर꣣मा꣡च्चि꣢त्स꣣ध꣡स्था꣢त् । अ꣢ग्ने꣣ त्वां꣡ का꣢मये गि꣣रा꣢ ॥११६६॥

आ꣢ । ते꣣ । वत्सः꣢ । म꣡नः꣢꣯ । य꣣मत् । परमा꣢त् । चि꣣त् । सध꣡स्धा꣢त् । स꣣ध꣢ । स्था꣣त् । अ꣡ग्ने꣢꣯ । त्वाम् । का꣣मये । गिरा꣢ ॥११६६॥

Mantra without Swara
आ ते वत्सो मनो यमत्परमाच्चित्सधस्थात् । अग्ने त्वां कामये गिरा ॥

आ । ते । वत्सः । मनः । यमत् । परमात् । चित् । सधस्धात् । सध । स्थात् । अग्ने । त्वाम् । कामये । गिरा ॥११६६॥

Samveda - Mantra Number : 1166
(Kauthum) उत्तरार्चिकः: » Prapathak » 4; Ardh Prapathak » 2;
(Rananiya) उत्तरार्चिकः: » Adhyay » 8; Khand » 6;

Samveda Bhashyam (Acharya Ramnath Vedalankar)

संस्कृत
Samveda Bhashyam (Acharya Ramnath Vedalankar) - संस्कृत
Meaning
हे (अग्ने) अग्रनायक, सर्वज्ञ, तेजोमय परमात्मन् ! अहम् (गिरा) स्तुतिवाचा (त्वाम् कामये) त्वाम् इच्छामि। (ते वत्सः) त्वदीयः पुत्रः, त्वत्प्राप्त्यर्थम् (परमात् चित्) सुदूरादपि (सधस्थात्) लोकात् (मनः) स्वकीयं मानसम् (आयमत्) उप रमयति, प्रत्यावर्तयति ॥१॥२
Essence
अन्तिके वा दूरे वा यत्र कुत्रापि मे मनो गतं ततस्तत् प्रत्यावर्त्य परमात्मन्येव केन्द्रयामि ॥१॥
Subject
तत्र प्रथमा ऋक् पूर्वार्चिके ८ क्रमाङ्के परमात्मविषये व्याख्याता। अत्रापि स एव विषयः प्रदर्श्यते।
Footnote
१. ऋ० ८।११।७। य० १२।११५, उभयत्र ‘का॑यमा’ इति पाठः। साम० ८। २. यजुर्भाष्ये दयानन्दस्वामी मन्त्रमिमं ‘मनुष्यैः सदैव मनः स्ववशं विधेयं वाणी च’ इति विषये व्याचष्टे।