Samveda Bhashyam (Acharya Ramnath Vedalankar)

Samveda Mantra 1164

1875 Mantra
Devata- पवमानः सोमः Rishi- भृगुर्वारुणिर्जमदग्निर्भार्गवो वा Chhand- गायत्री Swara- षड्जः
Mantra with Swara
य꣡ आ꣢र्जी꣣के꣢षु꣣ कृ꣡त्व꣢सु꣣ ये꣡ मध्ये꣢꣯ प꣣꣬स्त्या꣢꣯नाम् । ये꣢ वा꣣ ज꣡ने꣢षु प꣣ञ्च꣡सु꣢ ॥११६४॥

ये । आ꣣जीर्के꣡षु꣢ । कृ꣡त्व꣢꣯सु । ये । म꣡ध्ये꣢꣯ । प꣣꣬स्त्या꣢नाम् । ये । वा꣣ । ज꣡ने꣢꣯षु । प꣣ञ्च꣡सु꣢ ॥११६४॥

Mantra without Swara
य आर्जीकेषु कृत्वसु ये मध्ये पस्त्यानाम् । ये वा जनेषु पञ्चसु ॥

ये । आजीर्केषु । कृत्वसु । ये । मध्ये । पस्त्यानाम् । ये । वा । जनेषु । पञ्चसु ॥११६४॥

Samveda - Mantra Number : 1164
(Kauthum) उत्तरार्चिकः: » Prapathak » 4; Ardh Prapathak » 2;
(Rananiya) उत्तरार्चिकः: » Adhyay » 8; Khand » 5;

Samveda Bhashyam (Acharya Ramnath Vedalankar)

संस्कृत
Samveda Bhashyam (Acharya Ramnath Vedalankar) - संस्कृत
Meaning
(ये सोमासः) ये ज्ञानप्रेरका विद्वांसः (परावति) पराविद्याविषये, (ये) ये च (अर्वावति) अपराविद्याविषये (ये वा) ये च (अदः) अस्मिन्। [अत्र सुपां सुलुक्० अ० ७।१।३९ इति सप्तम्या लुक्।] (शर्यणावति४) शरीरविद्याविषये (सुन्विरे) ज्ञानं सुन्वन्ति प्रयच्छन्ति, (ये) ये विद्वांसः (आर्जीकेषु) ऋजुप्रवृत्तिषु (कृत्वसु) कर्मयोगिषु, (ये) ये विद्वांसः (पस्त्यानाम्) प्रजानाम्। [विशो वै पस्त्याः। श० ५।३।५।१९।] (मध्ये) अभ्यन्तरे, (ये वा) ये च (पञ्चसु जनेषु५) यजमानपञ्चमेषु चतुर्षु ब्रह्माध्वर्युहोत्रुद्गातृषु (सुन्विरे) ज्ञानं सुन्वन्ति प्रयच्छन्ति (ते स्वानाः) सुवानाः अध्यापयमानाः, (इन्दवः) ज्ञानरसेन क्लेदकाः (देवासः) विद्वांसः (नः) अस्मभ्यम् (दिवः परि) द्योतमानात् परमात्मनः (वृष्टिम्) आनन्द-रसवर्षाम्, (सुवीर्यम्) सुवीर्योपेतम् अध्यात्मधनं च (आ पवन्ताम्) प्रवाहयन्तु ॥१-३॥
Essence
आप्ता विद्वांसो विभिन्नात् जनान् तत्तत्सम्बद्धासु विद्यासु निष्णातान् कृत्वा ब्रह्मानन्दं च प्रदाय सुयोग्यान् कुर्वन्त्यतस्ते सर्वैः सत्करणीयाः ॥१-३॥ अस्मिन् खण्डे परमात्मनो विदुषां गुरूणां सकाशात् प्राप्यमाणस्य ज्ञानरसस्य ब्रह्मानन्दरसस्य च वर्णनादेतत्खण्डस्य पूर्वखण्डेन संगतिर्वेद्या ॥
Subject
अथैकवाक्यतया सम्पूर्णे सूक्ते विद्वद्भिः प्राप्यमाणे ब्रह्मानन्दरसो वर्ण्यते।
Footnote
१. ऋ० ९।६५।२२। २. ऋ० ९।६५।२३। ३. ऋ० ९।६५।२४, ‘सु॒वा॒ना’ इति भेदः। ४. शर्यणावति कुरुक्षेत्रस्य जघनार्द्धे शर्यणावत्संज्ञकं मधुरसयुक्तं सोमवत् सरोऽस्ति। अदः अस्मिन् सरसि सुरसा ये सोमा इन्द्रायाभिषूयन्ते—इति सा०। शर्यणावति भूमौ—इति वि०। ५. पञ्चजनाः यजमानश्चत्वार ऋत्विजः—इति वि०।