Samveda Bhashyam (Acharya Ramnath Vedalankar)

Samveda Mantra 1162

1875 Mantra
Devata- पवमानः सोमः Rishi- अग्नयो धिष्ण्या ऐश्वराः Chhand- द्विपदा विराट् Swara- पञ्चमः
Mantra with Swara
प्र꣡ सो꣢म या꣣ही꣡न्द्र꣢स्य कु꣣क्षा꣡ नृभि꣢꣯र्येमा꣣नो꣡ अद्रि꣢꣯भिः सु꣣तः꣢ ॥११६२॥

प्र । सो꣣म । याहि । इ꣡न्द्र꣢꣯स्य । कु꣣क्षा꣢ । नृ꣡भिः꣢꣯ । ये꣣मानः꣢ । अ꣡द्रि꣢꣯भिः । अ । द्रि꣣भिः । सुतः꣢ ॥११६२॥

Mantra without Swara
प्र सोम याहीन्द्रस्य कुक्षा नृभिर्येमानो अद्रिभिः सुतः ॥

प्र । सोम । याहि । इन्द्रस्य । कुक्षा । नृभिः । येमानः । अद्रिभिः । अ । द्रिभिः । सुतः ॥११६२॥

Samveda - Mantra Number : 1162
(Kauthum) उत्तरार्चिकः: » Prapathak » 4; Ardh Prapathak » 2;
(Rananiya) उत्तरार्चिकः: » Adhyay » 8; Khand » 5;

Samveda Bhashyam (Acharya Ramnath Vedalankar)

संस्कृत
Samveda Bhashyam (Acharya Ramnath Vedalankar) - संस्कृत
Meaning
हे (सोम) ज्ञानरस ! (नृभिः) नायकैः गुरुभिः (येमानः) नियम्यमानः, (अद्रिभिः) अखण्डितैः पाण्डित्यैः (सुतः) प्रेरितः त्वम् (इन्द्रस्य) जीवात्मनः (कुक्षा) गर्भे। [कुक्षौ इति प्राप्ते ‘सुपां सुलुक्०’ अ० ७।१।३९ इति विभक्तेर्डादेशः] (प्र याहि) प्र गच्छ ॥३॥
Essence
विद्वांसो नियमपरायणा गुरवो यदा छात्रानध्यापयन्ति तदा तेषां छात्राणामन्तरात्मनि विशुद्धज्ञानरसप्रवाहः सुतरामाविर्भवति ॥३॥
Subject
अथ पुनः स एव विषय उच्यते।
Footnote
१. ऋ० ९।१०९।१८।