Samveda Bhashyam (Acharya Ramnath Vedalankar)

Samveda Mantra 1161

1875 Mantra
Devata- पवमानः सोमः Rishi- अग्नयो धिष्ण्या ऐश्वराः Chhand- द्विपदा विराट् Swara- पञ्चमः
Mantra with Swara
स꣢ वा꣣꣬ज्य꣢꣯क्षाः स꣣ह꣡स्र꣢रेता अ꣣द्भि꣡र्मृ꣢जा꣣नो꣡ गोभिः꣢꣯ श्रीणा꣣नः꣢ ॥११६१॥

सः । वा꣣जी꣢ । अ꣣क्षारि꣡ति꣢ । स꣣ह꣡स्र꣢रेताः । स꣣ह꣡स्र꣢ । रे꣣ताः । अद्भिः꣢ । मृ꣣जानः꣢ । गो꣡भिः꣢꣯ । श्री꣣णानः꣢ ॥११६१॥

Mantra without Swara
स वाज्यक्षाः सहस्ररेता अद्भिर्मृजानो गोभिः श्रीणानः ॥

सः । वाजी । अक्षारिति । सहस्ररेताः । सहस्र । रेताः । अद्भिः । मृजानः । गोभिः । श्रीणानः ॥११६१॥

Samveda - Mantra Number : 1161
(Kauthum) उत्तरार्चिकः: » Prapathak » 4; Ardh Prapathak » 2;
(Rananiya) उत्तरार्चिकः: » Adhyay » 8; Khand » 5;

Samveda Bhashyam (Acharya Ramnath Vedalankar)

संस्कृत
Samveda Bhashyam (Acharya Ramnath Vedalankar) - संस्कृत
Meaning
(वाजी) वेगवान् (सहस्ररेताः) सहस्रवीर्यः (अद्भिः) शुभैः कर्मभिः (मृजानः) जीवात्मानम् अलङ्कुर्वन् (गोभिः) विवेकप्रकाशैः (श्रीणानः) जीवात्मानं परिपक्वं कुर्वन् (सः) असौ सोमः ज्ञानरसः (अक्षाः) आचार्यसकाशात् क्षरति ॥२॥
Essence
आचार्यसकाशात् यो ज्ञानरसः शिष्येण प्राप्यते स तस्य कर्माणि शोधयति तस्यान्तरात्मानं परिपक्वं च करोति ॥२॥
Subject
अथ पुनरपि तमेव विषयमाह।
Footnote
१. ऋ० ९।१०९।१७।