Samveda Bhashyam (Acharya Ramnath Vedalankar)

Samveda Mantra 1160

1875 Mantra
Devata- पवमानः सोमः Rishi- अग्नयो धिष्ण्या ऐश्वराः Chhand- द्विपदा विराट् Swara- पञ्चमः
Mantra with Swara
प्र꣢ वा꣣꣬ज्य꣢꣯क्षाः स꣣ह꣡स्र꣢धारस्ति꣣रः꣢ प꣣वि꣢त्रं꣣ वि꣢꣫ वार꣣म꣡व्य꣢म् ॥११६०॥

प्र꣢ । वा꣣जी꣢ । अ꣣क्षारि꣡ति꣢ । स꣣ह꣡स्र꣢धारः । स꣣ह꣡स्र꣢ । धा꣣रः । तिरः꣢ । प꣣वि꣡त्र꣢म् । वि । वा꣡र꣢꣯म् । अ꣡व्य꣢꣯म् ॥११६०॥

Mantra without Swara
प्र वाज्यक्षाः सहस्रधारस्तिरः पवित्रं वि वारमव्यम् ॥

प्र । वाजी । अक्षारिति । सहस्रधारः । सहस्र । धारः । तिरः । पवित्रम् । वि । वारम् । अव्यम् ॥११६०॥

Samveda - Mantra Number : 1160
(Kauthum) उत्तरार्चिकः: » Prapathak » 4; Ardh Prapathak » 2;
(Rananiya) उत्तरार्चिकः: » Adhyay » 8; Khand » 5;

Samveda Bhashyam (Acharya Ramnath Vedalankar)

संस्कृत
Samveda Bhashyam (Acharya Ramnath Vedalankar) - संस्कृत
Meaning
(वाजी) बलवान्, (सहस्रधारः) अनन्तधारः पवमानः सोमः पवित्रकारी ज्ञानरसः (पवित्रम्) पूतं मनः(तिरः) पारं कृत्वा (अव्यम्) अव्ययम् अविनश्वरम् (वारम्) दोषनिवारकं जीवात्मानं प्रति (प्र वि अक्षाः) प्रकर्षेण विविधं क्षरति। [अक्षाः क्षरति। निरु० ५।३] ॥१॥
Essence
आचार्यात् प्रवहन् विज्ञानरसो मनोमाध्यमेन जीवात्मानं प्रविश्य तं पुनाति विद्वांसं च करोति ॥१॥
Subject
तत्रादौ ज्ञानरसविषय उच्यते।
Footnote
१. ऋ० ९।१०९।१६, ‘प्र सु॑वा॒नो अ॑क्षाः’ इति भेदः।