Samveda Bhashyam (Acharya Ramnath Vedalankar)

Samveda Mantra 1159

1875 Mantra
Devata- पवमानः सोमः Rishi- पर्वतनारदौ काण्वौ शिखण्डिन्यावप्सरसौ काश्यपौ वा Chhand- उष्णिक् Swara- ऋषभः
Mantra with Swara
पु꣣ना꣡ता꣢ दक्ष꣣सा꣡ध꣢नं꣣ य꣢था꣣ श꣡र्धा꣢य वी꣣त꣡ये꣢ । य꣡था꣢ मि꣣त्रा꣢य꣣ व꣡रु꣢णाय꣣ श꣡न्त꣢मम् ॥११५९॥

पुना꣡त꣢ । द꣣क्षसा꣡ध꣢नम् । द꣣क्ष । सा꣡ध꣢꣯नम् । य꣡था꣢꣯ । श꣡र्धा꣢꣯य । वी꣣त꣡ये꣢ । य꣡था꣢꣯ । मि꣣त्रा꣡य꣢ । मि꣣ । त्रा꣡य꣢꣯ । व꣡रु꣢꣯णाय । श꣡न्त꣢꣯मम् ॥११५९॥

Mantra without Swara
पुनाता दक्षसाधनं यथा शर्धाय वीतये । यथा मित्राय वरुणाय शन्तमम् ॥

पुनात । दक्षसाधनम् । दक्ष । साधनम् । यथा । शर्धाय । वीतये । यथा । मित्राय । मि । त्राय । वरुणाय । शन्तमम् ॥११५९॥

Samveda - Mantra Number : 1159
(Kauthum) उत्तरार्चिकः: » Prapathak » 4; Ardh Prapathak » 2;
(Rananiya) उत्तरार्चिकः: » Adhyay » 8; Khand » 5;

Samveda Bhashyam (Acharya Ramnath Vedalankar)

संस्कृत
Samveda Bhashyam (Acharya Ramnath Vedalankar) - संस्कृत
Meaning
हे सखायः ! यूयम् (दक्षसाधनम्२) दक्षतायाः साधयितारम् सोमं जीवात्मानम् (पुनात) पुनीत। [पूञ् पवने क्र्यादिः, लोटि तप्तनप्तनथनाश्च। अ० ७।१।४५ इत्यनेन तस्य तबादेशे पित्वाद् ईत्वाभावः।] (यथा) येन, सः (शर्धाय) उत्साहाय (वीतये) प्रगतये च स्यात्, (यथा) येन च (मित्राय) मनसे (वरुणाय) दोषनिवारकाय प्राणाय च (शन्तमम्) शान्तिकरं यथा तथा भवेत् ॥३॥
Essence
जीवात्मनि पवित्रीभूते सति देहस्थानि मनोबुद्धिप्राणादीनि सर्वाण्यपि पवित्राणि जायन्ते ॥३॥
Subject
अथ पुनस्तमेव विषयमाह।
Footnote
१. ऋ० ९।१०४।३, ‘शंत॑मः’ इति भेदः। २. दक्षसाधनं बलस्य साधनम्—इति सा०। शीघ्रकर्मकर्तारम्—इति वि०।