Samveda Bhashyam (Acharya Ramnath Vedalankar)

Samveda Mantra 1158

1875 Mantra
Devata- पवमानः सोमः Rishi- पर्वतनारदौ काण्वौ शिखण्डिन्यावप्सरसौ काश्यपौ वा Chhand- उष्णिक् Swara- ऋषभः
Mantra with Swara
स꣡मी꣢ व꣣त्सं꣢꣫ न मा꣣तृ꣡भिः꣢ सृ꣢ज꣡ता꣢ गय꣣सा꣡ध꣢नम् । दे꣣वाव्यां꣣꣬३꣱म꣡द꣢म꣣भि꣡ द्विश꣢꣯वसम् ॥११५८॥

सम् । ई꣣ । वत्स꣢म् । न । मा꣣तृ꣡भिः꣢ । सृ꣣ज꣢त꣢ । ग꣣यसा꣡ध꣢नम् । ग꣣य । सा꣡ध꣢꣯नम् । देवाव्य꣣꣬म् । दे꣣व । अव्य꣣꣬म् । म꣡द꣢꣯म् । अ꣣भि꣢ । द्वि꣡श꣢꣯वसम् ॥११५८॥

Mantra without Swara
समी वत्सं न मातृभिः सृजता गयसाधनम् । देवाव्यां३मदमभि द्विशवसम् ॥

सम् । ई । वत्सम् । न । मातृभिः । सृजत । गयसाधनम् । गय । साधनम् । देवाव्यम् । देव । अव्यम् । मदम् । अभि । द्विशवसम् ॥११५८॥

Samveda - Mantra Number : 1158
(Kauthum) उत्तरार्चिकः: » Prapathak » 4; Ardh Prapathak » 2;
(Rananiya) उत्तरार्चिकः: » Adhyay » 8; Khand » 5;

Samveda Bhashyam (Acharya Ramnath Vedalankar)

संस्कृत
Samveda Bhashyam (Acharya Ramnath Vedalankar) - संस्कृत
Meaning
हे सखायः ! यूयम् (गयसाधनम्) देहगृहस्य परिष्कर्तारम्। [गय इति गृहनामसु पठितम्। निघं० ३।४।] (देवाव्यम्) देवानां प्रकाशकानां मनोबुद्धिज्ञानेन्द्रियाणाम् अवितारं रक्षकम्, (मदम्) ब्रह्मानन्दमनुभवितारम् (द्विशवसम्) आत्मिकदैहिकद्विविधबलयुक्तम् (ई) ईम् एनम् सोमं जीवात्मानम् (मातृभिः) जननीभिरिव हितकरीभिः श्रद्धाभिः२ (अभि सं सृजत) अभिसंयोजयत, (वत्सं न) वत्सं यथा (मातृभिः) गोभिः अभिसंसृजन्ति तद्वत् ॥२॥ अत्रोपमालङ्कारः ॥२॥
Essence
विविधगुणगणविभूषितेऽप्यात्मनि जननीव हितकरी श्रद्धा चेन्नास्ति तर्हि सोऽकिञ्चित्कर एव। धेन्वा संसृष्टो वत्सो यथा तत्पयःपानेन पुष्टो भवति तथैव श्रद्धया संसृष्टो जीवात्मा ब्रह्मानन्दपानेन परिपुष्टो जायते ॥२॥
Subject
अथ पुनरपि स एव विषय उच्यते।
Footnote
१. ऋ० ९।१०४।२। २. श्रद्धा चेतसः सम्प्रसादः। सा हि जननीव कल्याणी योगिनं पाति इति योग० १।२० भाष्ये व्यासः। श्रद्धा माता—साम० ९०।