Samveda Bhashyam (Acharya Ramnath Vedalankar)

Samveda Mantra 1157

1875 Mantra
Devata- पवमानः सोमः Rishi- पर्वतनारदौ काण्वौ शिखण्डिन्यावप्सरसौ काश्यपौ वा Chhand- उष्णिक् Swara- ऋषभः
Mantra with Swara
स꣡खा꣢य꣣ आ꣡ नि षी꣢꣯दत पुना꣣ना꣢य꣣ प्र꣡गा꣢यत । शि꣢शुं꣣ न꣢ य꣣ज्ञैः꣡ परि꣢꣯ भूषत श्रि꣣ये꣢ ॥११५७॥

स꣡खा꣣यः । स । खा꣣यः । आ꣢ । नि । सी꣣दत । पुनाना꣡य꣢ । प्र । गा꣣यत । शि꣡श꣢꣯म् । न । य꣣ज्ञैः꣢ । प꣡रि꣢꣯ । भू꣣षत । श्रिये꣢ ॥११५७॥

Mantra without Swara
सखाय आ नि षीदत पुनानाय प्रगायत । शिशुं न यज्ञैः परि भूषत श्रिये ॥

सखायः । स । खायः । आ । नि । सीदत । पुनानाय । प्र । गायत । शिशम् । न । यज्ञैः । परि । भूषत । श्रिये ॥११५७॥

Samveda - Mantra Number : 1157
(Kauthum) उत्तरार्चिकः: » Prapathak » 4; Ardh Prapathak » 2;
(Rananiya) उत्तरार्चिकः: » Adhyay » 8; Khand » 5;

Samveda Bhashyam (Acharya Ramnath Vedalankar)

संस्कृत
Samveda Bhashyam (Acharya Ramnath Vedalankar) - संस्कृत
Meaning
हे (सखायः) सुहृदः। यूयम् (आ निषीदत) आगत्य निषण्णा भवत, (पुनानाय) मनोबुद्ध्यादीनां पावकाय स्वान्तरात्मने (प्र गायत) उद्बोधनगीतानि गायत। अपि च (श्रिये) शोभायै, तम् सोमम् आत्मानम् (यज्ञैः) देवपूजासंगतिकरणदानादिभिः (परिभूषत) अलङ्कुरुत, (शिशुं न) यथा शिशुं सुरम्यवस्त्रालङ्कारादिभिः अलङ्कुर्वन्ति ॥१॥ अत्रोपमालङ्कारः ॥१॥
Essence
जीवात्मनि महती शक्तिर्निहिताऽस्ति। उद्बोधनगीतैस्तस्य सा शक्तिर्जागरयितव्या, नूतनैर्गुणग्रामैर्यज्ञभावनाभिश्च जीवात्माऽलङ्करणीयः ॥१॥
Subject
तत्र प्रथमा ऋक् पूर्वार्चिके ५६८ क्रमाङ्के परमात्मोपासनाविषये व्याख्याता। अत्र स्वान्तरात्मविषयमाह।
Footnote
१. ऋ० ९।१०४।१, साम० ५६८।