Samveda Bhashyam (Acharya Ramnath Vedalankar)

Samveda Mantra 1156

1875 Mantra
Devata- इन्द्रः Rishi- पुरुहन्मा आङ्गिरसः Chhand- बार्हतः प्रगाथः (विषमा बृहती, समा सतोबृहती) Swara- पञ्चमः
Mantra with Swara
अ꣡षा꣢ढमु꣣ग्रं꣡ पृत꣢꣯नासु सास꣣हिं꣡ यस्मि꣢꣯न्म꣣ही꣡रु꣢रु꣣ज्र꣡यः꣢ । सं꣢ धे꣣न꣢वो꣣ जा꣡य꣢माने अनोनवु꣣र्द्या꣢वः꣣ क्षा꣡मी꣢रनोनवुः ॥११५६॥

अ꣡षा꣢꣯ढम् । उ꣣ग्र꣢म् । पृ꣡त꣢꣯नासु । सा꣣सहि꣢म् । य꣡स्मि꣢꣯न् । म꣣हीः꣢ । उ꣣रुज्र꣡यः꣢ । उ꣣रु । ज्र꣡यः꣢꣯ । सम् । धे꣣न꣡वः꣢ । जा꣡य꣢꣯माने । अ꣣नोनवुः । द्या꣡वः꣢꣯ । क्षा꣡मीः꣢꣯ । अ꣣नोनवुः ॥११५६॥

Mantra without Swara
अषाढमुग्रं पृतनासु सासहिं यस्मिन्महीरुरुज्रयः । सं धेनवो जायमाने अनोनवुर्द्यावः क्षामीरनोनवुः ॥

अषाढम् । उग्रम् । पृतनासु । सासहिम् । यस्मिन् । महीः । उरुज्रयः । उरु । ज्रयः । सम् । धेनवः । जायमाने । अनोनवुः । द्यावः । क्षामीः । अनोनवुः ॥११५६॥

Samveda - Mantra Number : 1156
(Kauthum) उत्तरार्चिकः: » Prapathak » 4; Ardh Prapathak » 2;
(Rananiya) उत्तरार्चिकः: » Adhyay » 8; Khand » 4;

Samveda Bhashyam (Acharya Ramnath Vedalankar)

संस्कृत
Samveda Bhashyam (Acharya Ramnath Vedalankar) - संस्कृत
Meaning
(अषाढम्) केनापि अनभिभूतम्, (उग्रम्) पापिभ्यः प्रचण्डम्, (पृतनासु) कामक्रोधादीनां सेनासु (सासहिम्) पुनः पुनः पराजयकारिणम्, तम् इन्द्रं परमेश्वरं कर्मणा न किः नशत् न यज्ञैः इति पूर्वेण सम्बन्धः। [‘सहिवहिचलिपतिभ्यो यङन्तेभ्यः किकिनौ वक्तव्यौ’ वा० ३।२।१७१ इति किः प्रत्ययः।] (यस्मिन्) यस्याधीनतायाम् (उरुज्रयः) बहुवेगाः (महीः) भूचन्द्रादिलोकस्थाः पृथिव्यः सन्ति, यम् (जायमाने) जगदुत्पत्त्यनन्तरं प्रसिद्धिं भजमाने सति (धेनवः) वेदवाचः (सम् अनोनवुः) प्रशशंसुः (द्यावः) सूर्याः (क्षामीः) भूमिवासिन्यः प्रजाश्च (सम् अनोनवुः) प्रशशंसुः। [सप्त दिशो नाना सूर्याः। ऋ० ९।११४।३ इति श्रुतेः सूर्याणां नानात्वं प्रतिपद्यते] ॥२॥
Essence
ब्रह्माण्डेऽनेकानि सौरमण्डलानि सन्ति येषां पृथक्-पृथक् सूर्या वर्तन्ते। ते सर्वे लोका मानव्यः प्रजाश्च सर्वविजेतुः परमात्मन एव महिमानं गायन्ति ॥२॥ अस्मिन् खण्डे परमात्मविषयवर्णनादेतत्खण्डस्य पूर्वखण्डेन संगतिरस्ति ॥
Subject
अथ पुनरपि जगदीश्वरमहिमानमाह।
Footnote
१. ऋ० ८।७०।४, अथ० २०।९२।१९, उभयत्र ‘द्यावः॒ क्षामो॑ अनोनवुः’ इति पाठः।