Samveda Bhashyam (Acharya Ramnath Vedalankar)

Samveda Mantra 1155

1875 Mantra
Devata- इन्द्रः Rishi- पुरुहन्मा आङ्गिरसः Chhand- बार्हतः प्रगाथः (विषमा बृहती, समा सतोबृहती) Swara- मध्यमः
Mantra with Swara
न꣢ कि꣣ष्टं꣡ कर्म꣢꣯णा नश꣣द्य꣢श्च꣣का꣡र꣢ स꣣दा꣡वृ꣢धम् । इ꣢न्द्रं꣣ न꣢ य꣣ज्ञै꣢र्वि꣣श्व꣡गू꣢र्त꣣मृ꣡भ्व꣢स꣣म꣡धृ꣢ष्टं धृ꣣ष्णु꣡मोज꣢꣯सा ॥११५५॥

न꣢ । किः꣣ । त꣢म् । क꣡र्म꣢꣯णा । न꣣शत् । यः꣢ । च꣣का꣡र꣢ । स꣣दा꣡वृ꣢धम् । स꣣दा꣢ । वृ꣣धम् । इ꣡न्द्र꣢꣯म् । न । य꣣ज्ञैः꣢ । वि꣣श्व꣡गू꣢र्तम् । वि꣣श्व꣢ । गू꣣र्तम् । ऋ꣡भ्व꣢꣯सम् । अ꣡धृ꣢꣯ष्टम् । अ । धृ꣣ष्टम् । धृष्णु꣢म् । ओ꣡ज꣢꣯सा ॥११५५॥

Mantra without Swara
न किष्टं कर्मणा नशद्यश्चकार सदावृधम् । इन्द्रं न यज्ञैर्विश्वगूर्तमृभ्वसमधृष्टं धृष्णुमोजसा ॥

न । किः । तम् । कर्मणा । नशत् । यः । चकार । सदावृधम् । सदा । वृधम् । इन्द्रम् । न । यज्ञैः । विश्वगूर्तम् । विश्व । गूर्तम् । ऋभ्वसम् । अधृष्टम् । अ । धृष्टम् । धृष्णुम् । ओजसा ॥११५५॥

Samveda - Mantra Number : 1155
(Kauthum) उत्तरार्चिकः: » Prapathak » 4; Ardh Prapathak » 2;
(Rananiya) उत्तरार्चिकः: » Adhyay » 8; Khand » 4;

Samveda Bhashyam (Acharya Ramnath Vedalankar)

संस्कृत
Samveda Bhashyam (Acharya Ramnath Vedalankar) - संस्कृत
Meaning
(तम्) प्रसिद्धम् (इन्द्रम्) जगदीश्वरम् (कर्मणा) कार्येण (न किः) न कोऽपि (नशत्) व्याप्नोति, न कोऽपि कर्मणि तत्तुल्यो भवतीत्यर्थः, (यः) जगदीश्वरः (सदावृधम्) सदावृद्धिशीलम् इदं ब्रह्माण्डम् (चकार) ससर्ज। (न) नैव कोऽपि (विश्वगूर्तम्) विश्वगूर्णं सर्वोन्नतम्, (ऋभ्वसम्) उरु भासमानम्२, (अधृष्टम्) अपराजितम्, (ओजसा) प्रतापेन (धृष्णुम्) परेषां पराजेतारं च तम् इन्दुं जगदीश्वरम्, (यज्ञैः) जगत्सर्जनधारणपालनादिभिः (नशत्) व्याप्नोति, तत्तुल्यो भवति ॥१॥
Essence
परमात्मतुल्यकर्मा परमात्मतुल्ययज्ञश्च जगति कोऽपि न भूतो, न वर्तते, न भविष्यति ॥१॥
Subject
तत्र प्रथमा ऋक् पूर्वार्चिके २४३ क्रमाङ्के परमेश्वरमहत्त्वविषये व्याख्याता। अत्र पुनरपि स एव विषयः प्रदर्श्यते।
Footnote
१. ऋ० ८।७०।३, अथ० २०।९२।१८, उभयत्र ‘धृ॒ष्णवो॑जसम्’ इति पाठः। साम० २४३। २. ऋभ्वसम् उरु भासमानम्। उरुभासम् इत्यस्य पृषोदरादित्वात् ऋभ्वसादेशः इति ऋ० १।५६।१ भाष्ये ‘महान्तम्’ इति च प्रकृतसामभाष्ये—सा०।