Samveda Bhashyam (Acharya Ramnath Vedalankar)

Samveda Mantra 1154

1875 Mantra
Devata- पवमानः सोमः Rishi- सिकता निवावरी Chhand- जगती Swara- निषादः
Mantra with Swara
आ꣡ नः꣢ सोम सं꣣य꣡तं꣢ पि꣣प्यु꣢षी꣣मि꣢ष꣣मि꣢न्दो꣣ प꣡व꣢स्व꣣ प꣡व꣢मान ऊ꣣र्मि꣡णा꣢ । या꣢ नो꣣ दो꣡ह꣢ते꣣ त्रि꣢꣫रह꣣न्न꣡स꣢श्चुषी क्षु꣣म꣡द्वाज꣢꣯व꣣न्म꣡धु꣢मत्सु꣣वी꣡र्य꣢म् ॥११५४॥

आ꣢ । नः꣣ । सोम । सं꣡यत꣢म् । स꣣म् । य꣡त꣢꣯म् । पि꣣प्यु꣡षी꣢म् । इ꣡ष꣢꣯म् । इ꣡न्दो꣢꣯ । प꣡व꣢꣯स्व । प꣡व꣢꣯मानः । ऊ꣣र्मि꣡णा꣢ । या । नः꣣ । दो꣡ह꣢꣯ते । त्रिः । अ꣡ह꣢꣯न् । अ । ह꣣न् । अ꣡स꣢꣯श्चुषी । अ । स꣣श्चुषी । क्षुम꣢त् । वा꣡ज꣢꣯वत् । म꣡धु꣢꣯मत् । सु꣣वी꣡र्य꣢म् । सु꣣ । वी꣡र्य꣢꣯म् ॥११५४॥

Mantra without Swara
आ नः सोम संयतं पिप्युषीमिषमिन्दो पवस्व पवमान ऊर्मिणा । या नो दोहते त्रिरहन्नसश्चुषी क्षुमद्वाजवन्मधुमत्सुवीर्यम् ॥

आ । नः । सोम । संयतम् । सम् । यतम् । पिप्युषीम् । इषम् । इन्दो । पवस्व । पवमानः । ऊर्मिणा । या । नः । दोहते । त्रिः । अहन् । अ । हन् । असश्चुषी । अ । सश्चुषी । क्षुमत् । वाजवत् । मधुमत् । सुवीर्यम् । सु । वीर्यम् ॥११५४॥

Samveda - Mantra Number : 1154
(Kauthum) उत्तरार्चिकः: » Prapathak » 4; Ardh Prapathak » 2;
(Rananiya) उत्तरार्चिकः: » Adhyay » 8; Khand » 4;

Samveda Bhashyam (Acharya Ramnath Vedalankar)

संस्कृत
Samveda Bhashyam (Acharya Ramnath Vedalankar) - संस्कृत
Meaning
हे (इन्दो) तेजस्विन्, आनन्दरसेन क्लेदक, (पवमान) पवित्रतादायक (सोम) रसागार जगत्स्रष्टः परमात्मन् ! त्वम् (नः) अस्मभ्यम् (संयतम्) सुबद्धाम्, (पिप्युषीम्) अतिशयेन प्रवृद्धाम् (इषम्) अभीष्टसंपत्तिम् (ऊर्मिणा) तरङ्गेण (पवस्व) प्रवाहय, (या) सम्पत्तिः (असश्चुषी) अप्रतिबन्धा सती। [सश्चतिः गतिकर्मा। निघं० २।१४।] (नः) अस्मभ्यम् (अहन्) अहनि (त्रिः) त्रिवारम्, सोमयागस्य त्रिष्वपि सवनेषु (क्षुमत्) निवासगृहयुक्तम्, (वाजवत्) अन्नधनविज्ञानयुक्तम्, (मधुमत्) मधुरम्, (सुवीर्यम्) सुवीर्योपेतं फलम् (दोहते) दुग्धाम्। [दुह प्रपूरणे, लेट्] ॥३॥
Essence
परमेश्वरकृपया पुरुषार्थिनो वयम् प्रचुरप्रचुरां भौतिकीमाध्यात्मिकीं च सम्पदं प्राप्नुयाम ॥३॥
Subject
अथ परमात्मानं प्रार्थयते।
Footnote
१. ऋ० ९।८६।१८, ‘संयन्तं॑’, ‘पव॑मानो अ॒स्रिध॑म्’ इति पाठः।