Samveda Bhashyam (Acharya Ramnath Vedalankar)

Samveda Mantra 1152

1875 Mantra
Devata- पवमानः सोमः Rishi- सिकता निवावरी Chhand- जगती Swara- निषादः
Mantra with Swara
प्रो꣡ अ꣢यासी꣣दि꣢न्दु꣣रि꣡न्द्र꣢स्य निष्कृ꣣त꣢꣫ꣳ सखा꣣ स꣢ख्यु꣣र्न꣡ प्र मि꣢꣯नाति स꣣ङ्गि꣡र꣢म् । म꣡र्य꣢ इव युव꣣ति꣢भिः꣣ स꣡म꣢र्षति꣣ सो꣡मः꣢ क꣣ल꣡शे꣢ श꣣त꣡या꣢म्ना प꣣था꣢ ॥११५२॥

प्र꣡ । उ꣣ । अयासीत् । इ꣡न्दुः । ꣢꣯ इ꣡न्द्र꣢꣯स्य । नि꣣ष्कृत꣡म् । निः꣣ । कृत꣢म् । स꣡खा꣢꣯ । स । खा꣣ । स꣡ख्युः꣢꣯ । स । ख्युः꣣ । न꣢ । प्र । मि꣣नाति । संगि꣡र꣢म् । स꣣म् । गि꣡र꣢꣯म् । म꣡र्यः꣢꣯ । इ꣣व । युवति꣡भिः꣢ । सम् । अ꣣र्षति । सो꣡मः꣢꣯ । क꣣ल꣡शे꣢ । श꣣त꣡या꣢म्ना । श꣣त꣢ । या꣣म्ना । पथा꣢ ॥११५२॥१

Mantra without Swara
प्रो अयासीदिन्दुरिन्द्रस्य निष्कृतꣳ सखा सख्युर्न प्र मिनाति सङ्गिरम् । मर्य इव युवतिभिः समर्षति सोमः कलशे शतयाम्ना पथा ॥

प्र । उ । अयासीत् । इन्दुः । इन्द्रस्य । निष्कृतम् । निः । कृतम् । सखा । स । खा । सख्युः । स । ख्युः । न । प्र । मिनाति । संगिरम् । सम् । गिरम् । मर्यः । इव । युवतिभिः । सम् । अर्षति । सोमः । कलशे । शतयाम्ना । शत । याम्ना । पथा ॥११५२॥१

Samveda - Mantra Number : 1152
(Kauthum) उत्तरार्चिकः: » Prapathak » 4; Ardh Prapathak » 2;
(Rananiya) उत्तरार्चिकः: » Adhyay » 8; Khand » 4;

Samveda Bhashyam (Acharya Ramnath Vedalankar)

संस्कृत
Samveda Bhashyam (Acharya Ramnath Vedalankar) - संस्कृत
Meaning
(इन्दुः) सोमौषधिरसः (इन्द्रस्य) यजमानस्य [यजमानो वै स्वे यज्ञ इन्द्रः। श० ८।५।३।८।] (निष्कृतम्) गृहम् (प्र उ अयासीत्) प्रगच्छति। (सखा) मित्रभूतः सोमरसः (सख्युः) मित्रस्य यजमानस्य (संगिरम्) यज्ञम् (न प्रमिनाति) न भनक्ति, प्रत्युत साध्नोति। (सोमः) सोमरसः (शतयामना पथा) दशापवित्रस्य शतच्छिद्रेण मार्गेण (कलशे) द्रोणकलशे, (समर्षति) अद्भिः संगच्छते, कथमिव ? (मर्यः इव युवतिभिः) यथा मनुष्यः गृहे तरुणीभिः (समर्षति) यथायोग्यं व्यवहरति ॥१॥ अत्रोपमालङ्कारः ॥१॥
Essence
यथा सोमौषधिरसः सोमयागं साधयति तथैव मनुष्यैर्व्यवहारयज्ञ उपासनायज्ञश्च संसाधनीयः ॥१॥
Subject
तत्र प्रथमा ऋक् पूर्वार्चिके ५५७ क्रमाङ्के जीवात्मपरमात्मनोर्मैत्रीविषये व्याख्याता। अत्र सोमौषधिरसविषये व्याख्यायते।
Footnote
१. ऋ० ९।८६।१६, अथ० १८।४।६० उभयत्र ‘श॒तया॑मना’ इति पाठः। साम० ५५७।