Samveda Bhashyam (Acharya Ramnath Vedalankar)

Samveda Mantra 1151

1875 Mantra
Devata- इन्द्राग्नी Rishi- भरद्वाजो बार्हस्पत्यः Chhand- गायत्री Swara- षड्जः
Mantra with Swara
ता꣢ नो꣣ वा꣡ज꣢वती꣣रि꣡ष꣢ आ꣣शू꣡न्पि꣢पृत꣣म꣡र्व꣢तः । ए꣡न्द्र꣢म꣣ग्निं꣢ च꣣ वो꣡ढ꣢वे ॥११५१॥

ता । नः꣣ । वा꣡ज꣢꣯वतीः । इ꣡षः꣢꣯ । आ꣣शू꣢न् । पि꣣पृतम् । अ꣡र्व꣢꣯तः । आ । इ꣡न्द्र꣢꣯म् । अ꣣ग्नि꣢म् । च꣣ । वो꣡ढ꣢꣯वे ॥११५१॥

Mantra without Swara
ता नो वाजवतीरिष आशून्पिपृतमर्वतः । एन्द्रमग्निं च वोढवे ॥

ता । नः । वाजवतीः । इषः । आशून् । पिपृतम् । अर्वतः । आ । इन्द्रम् । अग्निम् । च । वोढवे ॥११५१॥

Samveda - Mantra Number : 1151
(Kauthum) उत्तरार्चिकः: » Prapathak » 4; Ardh Prapathak » 2;
(Rananiya) उत्तरार्चिकः: » Adhyay » 8; Khand » 3;

Samveda Bhashyam (Acharya Ramnath Vedalankar)

संस्कृत
Samveda Bhashyam (Acharya Ramnath Vedalankar) - संस्कृत
Meaning
हे इन्द्राग्नी वायुविद्युतौ ! [यो वै वायुः स इन्द्रो य इन्द्रः स वायुः। श० ४।१।३।१९।] (ता) तौ युवाम् (वाजवतीः)बलवतीः (इषः) अभीष्टाः अन्नधनादिसंहतीः, (आशून्) शीघ्रगामिनः (अर्वतः) भूजलान्तरिक्षयानयन्त्र- समूहान् च (पिपृतम्) प्रयच्छतम्। (इन्द्रम्) वायुम् (अग्निं च) विद्युतं च, वयम् (वोढवे) पदार्थान् वोढुम्, यानादिषु(आ) आनयेम, प्रयुञ्जीमहि ॥३॥२
Essence
परमेश्वरस्यैवेदं महत्त्वं यत्तेनैतादृशे वायुविद्युतौ रचिते याभ्यामनेकानि कार्याणि साद्धुं शक्यन्ते ॥३॥ अस्मिन् खण्डे परमात्मजीवात्मनोर्मोक्षस्य परमात्मरचितानां भौतिकाग्निवायुविद्युतां च वर्णनादेतत्खण्डस्य पूर्वखण्डेन संगतिरस्ति ॥
Subject
अथ परमेश्वररचितयोर्वायुविद्युतोर्विषयमाह।
Footnote
१. ऋ० ६।६०।१२। २. ऋग्भाष्ये दयानन्दस्वामिना मन्त्रोऽयं विद्युदादिपदार्थैर्विमानादि- चालनविषये व्याख्यातः।