Samveda Bhashyam (Acharya Ramnath Vedalankar)

Samveda Mantra 1150

1875 Mantra
Devata- इन्द्राग्नी Rishi- भरद्वाजो बार्हस्पत्यः Chhand- गायत्री Swara- षड्जः
Mantra with Swara
य꣢ इ꣣द्ध꣢ आ꣣वि꣡वा꣢सति सु꣣म्न꣡मिन्द्र꣢꣯स्य꣣ म꣡र्त्यः꣢ । द्यु꣣म्ना꣡य꣢ सु꣣त꣡रा꣢ अ꣣पः꣢ ॥११५०॥

यः । इ꣣द्धे꣢ । आ꣣वि꣢वा꣢सति । आ꣣ । वि꣡वा꣢꣯सति । सु꣣म्न꣢म् । इ꣡न्द्र꣢꣯स्य । म꣡र्त्यः꣢꣯ । द्यु꣣म्ना꣡य꣢ । सु꣣त꣡राः꣢ । सु꣣ । त꣡राः꣢꣯ । अ꣣पः꣢ ॥११५०॥

Mantra without Swara
य इद्ध आविवासति सुम्नमिन्द्रस्य मर्त्यः । द्युम्नाय सुतरा अपः ॥

यः । इद्धे । आविवासति । आ । विवासति । सुम्नम् । इन्द्रस्य । मर्त्यः । द्युम्नाय । सुतराः । सु । तराः । अपः ॥११५०॥

Samveda - Mantra Number : 1150
(Kauthum) उत्तरार्चिकः: » Prapathak » 4; Ardh Prapathak » 2;
(Rananiya) उत्तरार्चिकः: » Adhyay » 8; Khand » 3;

Samveda Bhashyam (Acharya Ramnath Vedalankar)

संस्कृत
Samveda Bhashyam (Acharya Ramnath Vedalankar) - संस्कृत
Meaning
(यः मर्त्यः) यो मनुष्यः (इद्धे) अग्नौ प्रदीप्ते सति (इन्द्रस्य) परमात्मनः (सुम्नम्) सुखकरं दानम् (आ विवासति) परिचरति, प्रशंसतीत्यर्थः, सः (द्युम्नाय) तेजसे यशसे च (अपः) विकटान्यपि कर्माणि (सुतराः) सुतराणि, सुसाध्यानि करोति ॥२॥२
Essence
समिद्धेऽग्नौ तस्य स्वकीयं ज्योतिर्नास्ति प्रत्युत परमात्मन एवेति यो मन्यते स परमात्माराधकः सन् तेजस्वी यशस्वी च जायते। यस्तु भौतिकवादी स भौतिकेष्वेव पदार्थेषु रममाणो भोगैरेव भुज्यते ॥२॥
Subject
अथाग्नौ परमेश्वरप्रदत्तमेव ज्योतिरस्तीत्याह।
Footnote
१. ऋ० ६।६०।११। २. ऋग्भाष्ये दयानन्दर्षिर्मन्त्रमिमं मनुष्यैर्यशसे धनाय च किं सेवितव्यमिति विषये व्याचष्टे।