Samveda Bhashyam (Acharya Ramnath Vedalankar)

Samveda Mantra 115

1875 Mantra
Devata- इन्द्रः Rishi- शंयुर्बार्हस्पत्यः Chhand- गायत्री Swara- षड्जः Kaand Name- ऐन्द्रं काण्डम् Gaan- प्रकृति गान Gaan Parva- ऐन्द्रं पर्व
Mantra with Swara
त꣡द्वो꣢ गाय सु꣣ते꣡ सचा꣢꣯ पुरुहू꣣ता꣢य꣣ स꣡त्व꣢ने । शं꣢꣫ यद्गवे꣣ न꣢ शा꣣कि꣡ने꣢ ॥११५॥

त꣢त् । वः꣣ । गाय । सुते꣢ । स꣡चा꣢꣯ । पु꣣रुहूता꣡य꣣ । पु꣣रु । हूता꣡य꣢ । स꣡त्व꣢꣯ने । शम् । यत् । ग꣡वे꣢꣯ । न꣢ । शा꣣कि꣡ने꣢ ॥११५॥

Mantra without Swara
तद्वो गाय सुते सचा पुरुहूताय सत्वने । शं यद्गवे न शाकिने ॥

तत् । वः । गाय । सुते । सचा । पुरुहूताय । पुरु । हूताय । सत्वने । शम् । यत् । गवे । न । शाकिने ॥११५॥

Samveda - Mantra Number : 115
(Kauthum) पूर्वार्चिकः: » Prapathak » 2; Ardh Prapathak » 1; Dashati » 3;
(Rananiya) पूर्वार्चिकः: » Adhyay » 2; Khand » 1;

Samveda Bhashyam (Acharya Ramnath Vedalankar)

संस्कृत
Samveda Bhashyam (Acharya Ramnath Vedalankar) - संस्कृत
Meaning
हे उपासकाः ! (वः२) यूयम् (सुते) श्रद्धारूपे सोमरसेऽभिषुते सति। षुञ् अभिषवे, निष्ठायां रूपम्। (सचा) संभूय। सचा सहेत्यर्थः। निरु० ५।५। (पुरुहूताय) बहुस्तुताय, बहुभिः स्तुताय वा। पुरु इति बहुनाम। निघं० ३।१। हूतः, ह्वेञ् स्पर्धायां शब्दे च। (सत्वने३) बलशालिने इन्द्राय परमात्मने (तत्) स्तोत्रम् (गाय) गायत। ‘लोपस्त आत्मनेपदेषु।’ अ० ७।१।४१ इत्यात्मनेपदे विहितस्तलोपोऽत्र बाहुलकात् परस्मैपदेऽपि भवति। (यत्) स्तोत्रम् (शाकिने) शाको यवसम् अस्यास्तीति शाकी तस्मै (गवे४ न) वृषभाय इव (शाकिने५) शक्तिमते। शक्लृ शक्तौ। शाकः शक्तिरस्यास्तीति शाकी तस्मै। (गवे) स्तोत्रे। गौः इति स्तोतृनामसु पठितम्। निघं० ३।१६। (शम्) सुखशान्तिकरं भवेदिति शेषः। वृषभाय यथा यवसादिकं सुखकरं भवति तथा स्तोत्रं सुखकरं भवेदित्याशयः ॥१॥ अत्र गवे न शाकिने इत्यत्र श्लिष्टोपमालङ्कारः ॥१॥
Essence
स्तुत्या परमात्मनो न काचिदुपलब्धिर्भवति, प्रत्युत स्तोतुरेवात्मनि सुखं शान्तिर्बलं चोपजायते ॥१॥
Subject
अथ द्वितीयोऽध्यायः ॥३॥ अथ ‘तद्वो गाय’ इत्याद्याया दशतेः तत्रादौ इन्द्रं प्रति स्तोत्राणि गातुं जनाः प्रेर्यन्ते।
Footnote
१. ऋ० ६।४५।२२, साम० १६६६। २. वेदे षष्ठीचतुर्थीद्वितीयास्विव प्रथमायामपि युष्मदो वसादेशो दृश्यते। विवरणकारस्तु वः त्वं गाय इति व्याचष्टे। वः यूयं गाय गायत इति भरतः। ३. सत्वने। षणु दाने इत्यस्यैतद् रूपम्, दात्रे—वि०। दात्रे धनानाम्—भ०। शत्रूणां सादयित्रे यद्वा धनानां सनित्रे दात्रे—सा०। शुद्धान्तःकरणाय इति ऋ० ६।४५।२२ भाष्ये द०। ४. वृषभाय इव—वि०। गवे इव घासः—भ०। यथा गवे यवसं सुखकरं तद्वदित्यर्थः—सा०। ५. शकनः शाकः शक्तिरित्यर्थः, तद्वान् शाकी, तस्मै शाकिने—वि०।