Samveda Bhashyam (Acharya Ramnath Vedalankar)

Samveda Mantra 1148

1875 Mantra
Devata- इन्द्रः Rishi- मधुच्छन्दा वैश्वामित्रः Chhand- गायत्री Swara- षड्जः
Mantra with Swara
इ꣡न्द्रा या꣢꣯हि꣣ तू꣡तु꣢जान꣣ उ꣢प꣣ ब्र꣡ह्मा꣢णि हरिवः । सु꣣ते꣡ द꣢धिष्व न꣣श्च꣡नः꣢ ॥११४८॥

इ꣡न्द्र꣢꣯ । आ । या꣣हि । तू꣡तु꣢꣯जानः । उ꣡प꣢꣯ । ब्र꣡ह्मा꣢꣯णि । ह꣣रिवः । सुते꣢ । द꣣धिष्व । नः । च꣡नः꣢꣯ ॥११४८॥

Mantra without Swara
इन्द्रा याहि तूतुजान उप ब्रह्माणि हरिवः । सुते दधिष्व नश्चनः ॥

इन्द्र । आ । याहि । तूतुजानः । उप । ब्रह्माणि । हरिवः । सुते । दधिष्व । नः । चनः ॥११४८॥

Samveda - Mantra Number : 1148
(Kauthum) उत्तरार्चिकः: » Prapathak » 4; Ardh Prapathak » 2;
(Rananiya) उत्तरार्चिकः: » Adhyay » 8; Khand » 3;

Samveda Bhashyam (Acharya Ramnath Vedalankar)

संस्कृत
Samveda Bhashyam (Acharya Ramnath Vedalankar) - संस्कृत
Meaning
हे (हरिवः) हरीणां परस्पराकर्षणवतां सूर्यचन्द्रपृथिव्यादिलोकानां स्वामिन् (इन्द्र) जगदीश्वर ! त्वम् (तूतुजानः) त्वरमाणः। [तूतुजानः इति क्षिप्रनामसु पठितम्। निघं० २।१४।] अस्माकम् (ब्रह्माणि) स्तोत्राणि (उप आयाहि) उपागच्छ। (नः) अस्माकम् (सुते) पुत्रादौ सन्ताने (चनः) उपासनाजन्यम् आनन्दरसम् (दधिष्व) धारय। [दध धारणे, भ्वादिः] ॥३॥२
Essence
जनैः सपरिवारं परमेश्वरोपासनाया आनन्दरसं प्रत्यहं प्राप्य दैनिककार्येषु प्रवर्तितव्यम् ॥३॥
Subject
अथ पुनरपि स एव विषय उच्यते।
Footnote
१. ऋ० १।३।६, य० २०।८९, अथ० २०।८४।३। २. दयानन्दर्षिर्मन्त्रमिमम् ऋग्भाष्ये वायुविषये यजुर्भाष्ये च विद्वद्विषये व्याख्यातवान्।