Samveda Bhashyam (Acharya Ramnath Vedalankar)

Samveda Mantra 1145

1875 Mantra
Devata- मित्रावरुणौ Rishi- यजत आत्रेयः Chhand- गायत्री Swara- षड्जः
Mantra with Swara
ता꣡ नः꣢ शक्तं꣣ पा꣡र्थि꣢वस्य म꣣हो꣡ रा꣣यो꣢ दि꣣व्य꣡स्य꣢ । म꣡हि꣢ वां क्ष꣣त्रं꣢ दे꣣वे꣡षु꣢ ॥११४५॥

ता । नः꣣ । शक्तम् । पा꣡र्थि꣢꣯वस्य । म꣣हः꣢ । रा꣣यः꣢ । दि꣣व्य꣡स्य꣢ । म꣡हि꣢꣯ । वा꣣म् । क्षत्र꣢म् । दे꣣वे꣡षु꣢ ॥११४५॥

Mantra without Swara
ता नः शक्तं पार्थिवस्य महो रायो दिव्यस्य । महि वां क्षत्रं देवेषु ॥

ता । नः । शक्तम् । पार्थिवस्य । महः । रायः । दिव्यस्य । महि । वाम् । क्षत्रम् । देवेषु ॥११४५॥

Samveda - Mantra Number : 1145
(Kauthum) उत्तरार्चिकः: » Prapathak » 4; Ardh Prapathak » 2;
(Rananiya) उत्तरार्चिकः: » Adhyay » 8; Khand » 3;

Samveda Bhashyam (Acharya Ramnath Vedalankar)

संस्कृत
Samveda Bhashyam (Acharya Ramnath Vedalankar) - संस्कृत
Meaning
(ता) तौ युवाम् मित्रावरुणौ परमात्मजीवात्मानौ (पार्थिवस्य) सांसारिकस्य (दिव्यस्य) आध्यात्मिकस्य च (महः) महतः (रायः) धनस्य (नः) अस्मभ्यम् (शक्तम्) दातुं शक्नुतम्। (देवेषु) सूर्यचन्द्रविद्युदादिषु मनोबुद्धिप्राणादिषु वा (वाम्) युवयोः (महि) महत् (क्षत्रम्) बलं निहितमस्ति ॥३॥२
Essence
परमात्मजीवात्मनोः साहाय्येन न केवलं लौकिकं किन्तु पारमार्थिकं दिव्यं धनमपि प्राप्तुं शक्यते। शरीरस्थानि मनोबुद्ध्यादीन्यात्मनः परमात्मनश्चोभयोर्बलेन, सूर्यग्रहनक्षत्रादीनि च परमात्मन एव बलेन बलवन्ति सन्ति। अतोऽस्माभिरपि तयोर्बलं कुतो न प्राप्तव्यम् ॥३॥
Subject
अथ पुनरपि स एव विषयो वर्ण्यते।
Footnote
१. ऋ० ५।६८।३, साम० १४६५। २. दयानन्दर्षिर्ऋग्भाष्ये मन्त्रमिमं राज्यं कथमुन्नेयमिति विषये व्याचष्टे।