Samveda Bhashyam (Acharya Ramnath Vedalankar)

Samveda Mantra 1142

1875 Mantra
Devata- अग्निः Rishi- भरद्वाजो बार्हस्पत्यः Chhand- त्रिष्टुप् Swara- धैवतः
Mantra with Swara
ना꣡भिं꣢ य꣣ज्ञा꣢ना꣣ꣳ स꣡द꣢नꣳ रयी꣣णां꣢ म꣣हा꣡मा꣢हा꣣व꣢म꣣भि꣡ सं न꣢꣯वन्त । वै꣣श्वानर꣢ꣳ र꣣꣬थ्य꣢꣯मध्व꣣रा꣡णां꣡ य꣣ज्ञ꣡स्य꣢ के꣣तुं꣡ ज꣢नयन्त दे꣣वाः꣢ ॥११४२॥

ना꣡भि꣢꣯म् । य꣣ज्ञा꣡ना꣢म् । स꣡द꣢꣯नम् । र꣣यीणा꣢म् । म꣣हा꣢म् । आ꣣हाव꣢म् । आ꣣ । हाव꣢म् । अ꣣भि꣢ । सम् । न꣣वन्त । वैश्वानर꣢म् । वै꣣श्व । नर꣢म् । र꣣थ्य꣢म् । अ꣣ध्वरा꣡णा꣢म् । य꣣ज्ञ꣡स्य꣢ । के꣣तु꣢म् । ज꣣नयन्त । देवाः꣢ ॥११४२॥

Mantra without Swara
नाभिं यज्ञानाꣳ सदनꣳ रयीणां महामाहावमभि सं नवन्त । वैश्वानरꣳ रथ्यमध्वराणां यज्ञस्य केतुं जनयन्त देवाः ॥

नाभिम् । यज्ञानाम् । सदनम् । रयीणाम् । महाम् । आहावम् । आ । हावम् । अभि । सम् । नवन्त । वैश्वानरम् । वैश्व । नरम् । रथ्यम् । अध्वराणाम् । यज्ञस्य । केतुम् । जनयन्त । देवाः ॥११४२॥

Samveda - Mantra Number : 1142
(Kauthum) उत्तरार्चिकः: » Prapathak » 4; Ardh Prapathak » 2;
(Rananiya) उत्तरार्चिकः: » Adhyay » 8; Khand » 3;

Samveda Bhashyam (Acharya Ramnath Vedalankar)

संस्कृत
Samveda Bhashyam (Acharya Ramnath Vedalankar) - संस्कृत
Meaning
(यज्ञानाम्) पूजाकर्मणाम् (नाभिम्) केन्द्रम्, (रयीणाम्) धनानाम् (सदनम्) गृहम्, (महाम्) महतां तेजसाम् (आहावम्) निपानभूतम् परमात्मानं, जनाः (अभि सं नवन्त) अभि सं स्तुवन्ति। (अध्वराणाम्) हिंसारहितानां व्यवहाराणाम् (रथ्यम्) रथिनम्, (यज्ञस्य) परोपकारयज्ञस्य (केतुम्२) ध्वजमिव स्थितम् (वैश्वानरम्) विश्वेषां नेतारं परमात्मानम् (देवाः३) विद्वांसः उपासकाः (जनयन्त) स्वान्तरात्मनि प्रकटयन्ति ॥३॥४
Essence
विविधगुणागारं जगदीश्वरं सम्पूज्य योगाभ्यासेन तत्साक्षात्कारः स्वान्तरात्मनि सर्वैः कर्तव्यः ॥३॥
Subject
अथ पुनः परमात्मविषयमाह।
Footnote
१. ऋ० ६।७।२। २. केतुम् प्रज्ञापकम्—इति सा०। ध्वजम्—इति वि०। ३. देवाः स्तोतार ऋत्विजो देवा एव वा—इति सा०। दानवन्त ऋत्विजः—इति वि०। ४. ऋग्भाष्ये दयानन्दर्षिणा मन्त्रोऽयं भौतिकाग्निविषये व्याख्यातः।