Samveda Bhashyam (Acharya Ramnath Vedalankar)

Samveda Mantra 1141

1875 Mantra
Devata- अग्निः Rishi- भरद्वाजो बार्हस्पत्यः Chhand- त्रिष्टुप् Swara- धैवतः
Mantra with Swara
त्वां꣡ विश्वे꣢꣯ अमृत꣣ जा꣡य꣢मान꣣ꣳ शि꣢शुं꣣ न꣢ दे꣣वा꣢ अ꣣भि꣡ सं न꣢꣯वन्ते । त꣢व꣣ क्र꣡तु꣢भिरमृत꣣त्व꣡मा꣢य꣣न्वै꣡श्वा꣢नर꣣ य꣢त्पि꣣त्रो꣡रदी꣢꣯देः ॥११४१॥

त्वाम् । वि꣡श्वे꣢꣯ । अ꣣मृत । अ । मृत । जा꣡य꣢꣯मानम् । शि꣡शु꣢꣯म् । न । दे꣣वाः꣢ । अ꣣भि꣢ । सम् । न꣣वन्ते । त꣡व꣢꣯ । क्र꣡तु꣢꣯भिः । अ꣣मृतत्व꣢म् । अ꣣ । मृतत्व꣢म् । आ꣣यन् । वै꣡श्वा꣢꣯नर । वै꣡श्व꣢꣯ । न꣣र । य꣢त् । पि꣣त्रोः꣢ । अ꣡दी꣢꣯देः ॥११४१॥

Mantra without Swara
त्वां विश्वे अमृत जायमानꣳ शिशुं न देवा अभि सं नवन्ते । तव क्रतुभिरमृतत्वमायन्वैश्वानर यत्पित्रोरदीदेः ॥

त्वाम् । विश्वे । अमृत । अ । मृत । जायमानम् । शिशुम् । न । देवाः । अभि । सम् । नवन्ते । तव । क्रतुभिः । अमृतत्वम् । अ । मृतत्वम् । आयन् । वैश्वानर । वैश्व । नर । यत् । पित्रोः । अदीदेः ॥११४१॥

Samveda - Mantra Number : 1141
(Kauthum) उत्तरार्चिकः: » Prapathak » 4; Ardh Prapathak » 2;
(Rananiya) उत्तरार्चिकः: » Adhyay » 8; Khand » 3;

Samveda Bhashyam (Acharya Ramnath Vedalankar)

संस्कृत
Samveda Bhashyam (Acharya Ramnath Vedalankar) - संस्कृत
Meaning
हे (अमृत) अमर परमात्मन् ! (जायमानं त्वाम्) अन्तरात्मनि आविर्भवन्तं त्वाम् (जायमानं शिशुं न) उत्पद्यमानं शिशुमिव (विश्वे देवाः) सर्वे विद्वांसः उपासकाः (अभि सं नवन्ते) अभि संस्तुवन्ति। (तव क्रतुभिः) त्वदीयैः कर्तृत्वैः, उपासकाः (अमृतत्वम्) मोक्षम् (आयन्) प्राप्नुवन्ति, (यत्) यस्मात्, हे (वैश्वानर) विश्वान् नरान् धर्मकार्येषु यो नयति तथाविध परमात्मन् ! त्वम् (पित्रोः) मातापित्रोरिव विद्यमानयोः द्यावापृथिव्योः (अदीदेः) दीप्तो भवसि ॥२॥२ अत्रोपमालङ्कारः ॥२॥
Essence
यथा गृहे शिशौ जाते सर्वे गृहवासिनो हृष्यन्ति तथैव परमात्मनि हृदये प्रकटीभूते सति साधका जनाः प्रसीदन्ति। मोक्षाय प्रयतमाना जनाः परमात्मन एव व्यवस्थया मोक्षं लभन्ते। विद्वांसो भक्तजनाः दिवि भुवि च सर्वत्र परमेश्वरस्यैव विभूतिं पश्यन्ति ॥२॥
Subject
अथ परमात्मनो मोक्षस्य च विषयो वर्ण्यते।
Footnote
१. ऋ० ६।७।४। २. ऋग्भाष्ये दयानन्दर्षिर्मन्त्रमिमं द्वितीयजन्मविषये व्याख्यातवान्।