Samveda Bhashyam (Acharya Ramnath Vedalankar)

Samveda Mantra 1140

1875 Mantra
Devata- अग्निः Rishi- भरद्वाजो बार्हस्पत्यः Chhand- त्रिष्टुप् Swara- धैवतः
Mantra with Swara
मू꣣र्धा꣡नं꣢ दि꣣वो꣡ अ꣢र꣣तिं꣡ पृ꣢थि꣣व्या꣡ वै꣢श्वान꣣र꣢मृ꣣त꣢꣯ आ जा꣣त꣢म꣣ग्नि꣢म् । क꣣वि꣢ꣳ स꣣म्रा꣢ज꣣म꣡ति꣢थिं꣣ ज꣡ना꣢नामा꣣स꣢न्नः꣣ पा꣡त्रं꣢ जनयन्त दे꣣वाः꣢ ॥११४०॥

मू꣣र्धा꣡न꣢म् । दि꣣वः꣢ । अ꣣रति꣢म् । पृ꣣थिव्याः꣢ । वै꣣श्वानर꣢म् । वै꣣श्व । नर꣢म् । ऋ꣣ते꣢ । आ । जा꣣त꣢म् । अ꣣ग्नि꣢म् । क꣣वि꣢म् । सम्रा꣡ज꣢म् । स꣣म् । रा꣡ज꣢꣯म् । अ꣡ति꣢꣯थिम् । ज꣡ना꣢꣯नाम् । आ꣣स꣢न् । नः꣣ । पा꣡त्र꣢꣯म् । ज꣣नयन्त । देवाः ॥११४०॥

Mantra without Swara
मूर्धानं दिवो अरतिं पृथिव्या वैश्वानरमृत आ जातमग्निम् । कविꣳ सम्राजमतिथिं जनानामासन्नः पात्रं जनयन्त देवाः ॥

मूर्धानम् । दिवः । अरतिम् । पृथिव्याः । वैश्वानरम् । वैश्व । नरम् । ऋते । आ । जातम् । अग्निम् । कविम् । सम्राजम् । सम् । राजम् । अतिथिम् । जनानाम् । आसन् । नः । पात्रम् । जनयन्त । देवाः ॥११४०॥

Samveda - Mantra Number : 1140
(Kauthum) उत्तरार्चिकः: » Prapathak » 4; Ardh Prapathak » 2;
(Rananiya) उत्तरार्चिकः: » Adhyay » 8; Khand » 3;

Samveda Bhashyam (Acharya Ramnath Vedalankar)

संस्कृत
Samveda Bhashyam (Acharya Ramnath Vedalankar) - संस्कृत
Meaning
(मूर्धानम्) मूर्धवत् सर्वोपरि विराजमानम्, (दिवः) सूर्यस्य(पृथिव्याः) धरित्र्याश्च (अरतिम्) स्वामिनम्। [ऋच्छति गच्छति स्वामित्वेन यः तम्। ऋ गतौ धातोः औणादिकः अतिप्रत्ययः।] (वैश्वानरम्) विश्वेषां नेतारम्, (ऋते) यज्ञे (आ जातम्) सर्वत्र प्रसिद्धम्, (कविम्) वेदकाव्यस्य कर्तारम्, (सम्राजम्) ब्रह्माण्डस्य राजराजेश्वरम्, (जनानाम्) मनुष्याणाम् (अतिथिम्) अतिथिवत् पूज्यम्, (नः) अस्माकम् (पात्रम्) पातारम् (अग्निम्) अग्रनेतारं परमेश्वरम् (देवाः) विद्वांसः उपासका जनाः (आसन्) आस्ना मुखेन प्रणवजपविधिना (जनयन्त) जनयन्ति, अन्तरात्मनि प्रकटयन्ति। [आसन् आस्ना, तृतीयैकवचने ‘सुपां सुलुक्०’ अ० ७।१।३९ इत्यनेन विभक्तेर्लुक्] ॥१॥२
Essence
विश्ववन्द्यं निखिलशुभगुणकर्मस्वभावं विश्वस्य सम्राजं परमात्मानं विदित्वा स्तुत्वा समुपास्य च मनुष्यैरात्मनः परेषां चोन्नतिः साधनीया ॥१॥
Subject
तत्र प्रथमा ऋक् पूर्वार्चिके ६७ क्रमाङ्के परमात्मसाक्षात्कारविषये व्याख्याता। अत्र पुनरपि तमेव विषयमाह।
Footnote
१. ऋ० ६।७।१, य० ७।२४, ३३।८, सर्वत्र ‘मा॒सन्ना’ इति पाठः। साम० ६७। २. दयानन्दर्षिणा ऋग्यजुर्भाष्ययोर्मन्त्र एष परमात्मपक्षे विद्वत्पक्षे भौतिकाग्निपक्षे विद्युत्पक्षे च व्याख्यातः।