Samveda Bhashyam (Acharya Ramnath Vedalankar)

Samveda Mantra 114

1875 Mantra
Devata- अग्निः Rishi- विश्वमना वैयश्वः Chhand- उष्णिक् Swara- ऋषभः Kaand Name- आग्नेयं काण्डम् Gaan- प्रकृति गान Gaan Parva- आग्नेयं पर्व
Mantra with Swara
य꣡द्वा उ꣢꣯ वि꣣श्प꣡तिः꣢ शि꣣तः꣡ सुप्री꣢꣯तो꣣ म꣡नु꣢षो वि꣣शे꣢ । वि꣢꣫श्वेद꣣ग्निः꣢꣫ प्रति꣣ र꣡क्षा꣢ꣳसि सेधति ॥११४॥

य꣢द् । वै । उ꣣ । विश्प꣡तिः꣢ । शि꣣तः꣢ । सु꣡प्री꣢꣯तः । सु । प्री꣣तः म꣡नु꣢꣯षः । वि꣣शे꣢ । वि꣡श्वा꣢꣯ । इत् । अ꣣ग्निः꣢ । प्र꣡ति꣢꣯ । रक्षाँ꣢꣯सि । से꣣धति ॥११४॥

Mantra without Swara
यद्वा उ विश्पतिः शितः सुप्रीतो मनुषो विशे । विश्वेदग्निः प्रति रक्षाꣳसि सेधति ॥

यद् । वै । उ । विश्पतिः । शितः । सुप्रीतः । सु । प्रीतः मनुषः । विशे । विश्वा । इत् । अग्निः । प्रति । रक्षाँसि । सेधति ॥११४॥

Samveda - Mantra Number : 114
(Kauthum) पूर्वार्चिकः: » Prapathak » 2; Ardh Prapathak » 1; Dashati » 2;
(Rananiya) पूर्वार्चिकः: » Adhyay » 1; Khand » 12;

Samveda Bhashyam (Acharya Ramnath Vedalankar)

संस्कृत
Samveda Bhashyam (Acharya Ramnath Vedalankar) - संस्कृत
Meaning
(यत् वै उ) यदा खलु (विश्पतिः) प्रजापालकः (अग्निः) यज्ञाग्निः, अतिथिः, आचार्यः, राजा, परमात्मा वा (शितः) हविष्प्रदानेन तीक्ष्णीकृतः, प्रोद्बोधितः, उत्साहितो वा सन्। शो तनूकरणे निष्ठायां रूपम्। (मनुषः) सत्कर्तुः मनुष्यस्य (विशे) यज्ञगृहे स्वगृहे, गुरुकुलगृहे, राष्ट्रगृहे, हृदयगृहे वा। विशन्त्येतद् इति विशः गृहम्। (सुप्रीतः) सुतृप्तः जायते, तदा (विश्वा इत्) सर्वाण्येव। विश्वानि इति प्राप्ते शेश्छन्दसि बहुलम्।’ अ० ६।१।७० इति शिलोपः। (रक्षांसि) अविद्याव्याधिदुराचारदुर्गुणादीन् राक्षसान् शत्रूँश्च (प्रति सेधति) निवारयति ॥८॥ अत्रार्थश्लेषालङ्कारः ॥८॥
Essence
यथा घृताद्याहुतिप्रदानेन तीक्ष्णीकृतः सुतृप्तश्च यज्ञवह्निः सर्वान् रोगराक्षसान् विनाशयति, यथा वा गृहे सत्कारेण प्रसादितो विद्वानतिथिर्गृहस्थस्य सर्वानविद्यादीन् राक्षसान् हन्ति, यथा वा शिष्याणां शुश्रूषया व्रतपालनेन च वशीकृत आचार्यस्तेषां समस्तान् दोषान् दूरीकरोति, यथा वा प्रजाजनैरुत्साहितः करादिप्रदानेन तोषितश्च राजा तेषां संकटानपहरति, तथा समर्पणरूपहविष्प्रदानेनोपासित सुतोषितश्च परमात्मा सर्वान् विघ्नान् कामक्रोधादीन् राक्षसाँश्च समूलं हिनस्ति ॥८॥ अत्र परमात्मसख्यस्य फलप्रतिपादनपूर्वकं तत्स्तुत्यर्थं प्रेरणात्, ततस्तेजःप्रार्थनात्, तद्द्वारा राक्षसनिवारणादिवर्णनाद्, अग्निनाम्ना नृपातिथ्याचार्ययज्ञाग्न्यादीनां चरितवर्णनाच्चैतद्दशत्यर्थस्य पूर्वदशत्यर्थेन सह संगतिरस्तीति बोध्यम् ॥ इति द्वितीये प्रपाठके प्रथमार्धे द्वितीया दशतिः। इति प्रथमेऽध्याये द्वादशः खण्डः। समाप्तश्चायं प्रथमोऽध्यायः।
Subject
अथ यज्ञाग्निरतिथिराचार्यो राजा परमात्मा च मनुष्याणां किमुपकुर्वन्तीत्याह।
Footnote
१. ऋ० ८।२३।१३, विशे इत्यत्र विशि इति पाठः।