Samveda Bhashyam (Acharya Ramnath Vedalankar)

Samveda Mantra 1139

1875 Mantra
Devata- पवमानः सोमः Rishi- भृगुर्वारुणिर्जमदग्निर्भार्गवो वा Chhand- गायत्री Swara- षड्जः
Mantra with Swara
आ꣢ र꣣यि꣡मा सु꣢꣯चे꣣तु꣢न꣣मा꣡ सु꣢क्रतो त꣣नू꣢ष्वा । पा꣢न्त꣣मा꣡ पु꣢रु꣣स्पृ꣡ह꣢म् ॥११३९॥

आ । र꣣यि꣢म् । आ । सु꣣चेतु꣡न꣢म् । सु꣣ । चेतु꣡न꣢म् । आ । सु꣣क्रतो । सु । क्रतो । तनू꣡षु꣢ । आ । पा꣡न्त꣢꣯म् । आ । पु꣣रुस्पृ꣡ह꣢म् । पु꣣रु । स्पृ꣡ह꣢꣯म् ॥११३९॥

Mantra without Swara
आ रयिमा सुचेतुनमा सुक्रतो तनूष्वा । पान्तमा पुरुस्पृहम् ॥

आ । रयिम् । आ । सुचेतुनम् । सु । चेतुनम् । आ । सुक्रतो । सु । क्रतो । तनूषु । आ । पान्तम् । आ । पुरुस्पृहम् । पुरु । स्पृहम् ॥११३९॥

Samveda - Mantra Number : 1139
(Kauthum) उत्तरार्चिकः: » Prapathak » 4; Ardh Prapathak » 2;
(Rananiya) उत्तरार्चिकः: » Adhyay » 8; Khand » 2;

Samveda Bhashyam (Acharya Ramnath Vedalankar)

संस्कृत
Samveda Bhashyam (Acharya Ramnath Vedalankar) - संस्कृत
Meaning
हे (सुक्रतो) सुप्रज्ञ सुकर्मन् परमात्मन् आचार्य वा ! त्वम् (आ) आयाहि। वयम् त्वत् (रयिम्) धनम् (आ) आवृणीमहे। (सुचेतुनम्) सुज्ञानम्। [चिती संज्ञाने, भावे औणादिक उनन्प्रत्ययः।] (आ) आवृणीमहे, (तनूषु) शरीरेषु, शरीराणां हितायेत्यर्थः त्वाम् (आ) आवृणीमहे। (पान्तम्) रक्षकम् (पुरुस्पृहम्) बहुस्पृहणीयं च त्वाम् (आ) आवृणीमहे ॥१२॥
Essence
परमात्मानमाचार्यं च संसेव्य सर्वैर्धनज्ञानजागरूकतास्वास्थ्यादिसम्पत्तिः प्रापणीया ॥१२॥ अस्मिन् खण्डे विदुष आचार्यस्य परमात्मनो ब्रह्मानन्दस्य च वर्णनादेतत्खण्डस्य पूर्वखण्डेन संगतिरस्तीति वेद्यम् ॥
Subject
अथ पुनरपि परमात्मन आचार्यस्य च विषयो वर्ण्यते।
Footnote
१. ऋ० ९।६५।३०।