Samveda Bhashyam (Acharya Ramnath Vedalankar)

Samveda Mantra 1136

1875 Mantra
Devata- पवमानः सोमः Rishi- असितः काश्यपो देवलो वा Chhand- गायत्री Swara- षड्जः
Mantra with Swara
अ꣣स्म꣡भ्य꣢ꣳ रोदसी र꣣यिं꣢꣫ मध्वो꣣ वा꣡ज꣢स्य सा꣣त꣡ये꣢ । श्र꣢वो꣣ व꣡सू꣢नि꣣ स꣡ञ्जि꣢तम् ॥११३६॥

अ꣣स्म꣡भ्य꣢म् । रो꣣दसीइ꣡ति꣢ । र꣣यि꣢म् । म꣡ध्वः꣢꣯ । वा꣡ज꣢꣯स्य । सा꣣त꣡ये꣢ । श्र꣡वः꣢꣯ । व꣡सू꣢꣯नि । सम् । जि꣣तम् ॥११३६॥

Mantra without Swara
अस्मभ्यꣳ रोदसी रयिं मध्वो वाजस्य सातये । श्रवो वसूनि सञ्जितम् ॥

अस्मभ्यम् । रोदसीइति । रयिम् । मध्वः । वाजस्य । सातये । श्रवः । वसूनि । सम् । जितम् ॥११३६॥

Samveda - Mantra Number : 1136
(Kauthum) उत्तरार्चिकः: » Prapathak » 4; Ardh Prapathak » 2;
(Rananiya) उत्तरार्चिकः: » Adhyay » 8; Khand » 2;

Samveda Bhashyam (Acharya Ramnath Vedalankar)

संस्कृत
Samveda Bhashyam (Acharya Ramnath Vedalankar) - संस्कृत
Meaning
हे (रोदसी) आत्ममनसी ! युवाम् (मध्वः) मधुरस्य सोमस्य ज्ञानरसस्य आनन्दरसस्य चेत्यर्थः (सातये) प्राप्तये (अस्मभ्यम्) नः (रयिम्) भौतिकं रजतहिरण्यादिकं धनम्, (श्रवः२) यशः शास्त्रश्रवणं च, (वसूनि) आध्यात्मिकानि धारणाध्यानसमाधियोगसिद्धिविवेकख्यातिप्रभृतानि धनानि च (संजितम्) संजयतम् ॥९॥
Essence
ज्ञाने ब्रह्मानन्दे वा मनो निवेशयितुं पूर्वं धनधर्मादीनामुपार्जनमपेक्ष्यते ॥९॥
Subject
अथ पुनरपि ज्ञानस्य ब्रह्मानन्दस्य च विषयमाह।
Footnote
१. ऋ० ९।७।९। २. श्रवः अन्नं यशो बलं वा—इति वि०।