Samveda Bhashyam (Acharya Ramnath Vedalankar)

Samveda Mantra 1135

1875 Mantra
Devata- पवमानः सोमः Rishi- असितः काश्यपो देवलो वा Chhand- गायत्री Swara- षड्जः
Mantra with Swara
आ꣢ मि꣣त्रे꣡ वरु꣢꣯णे꣣ भ꣢गे꣣ म꣡धोः꣢ पवन्त ऊ꣣र्म꣡यः꣢ । वि꣣दाना꣡ अ꣢स्य꣣ श꣡क्म꣢भिः ॥११३५॥

आ । मि꣣त्रे꣢ । मि꣣ । त्रे꣢ । व꣡रु꣢꣯णे । भ꣡गे꣢꣯ । म꣡धोः꣢꣯ । प꣣वन्ते । ऊर्म꣡यः꣢ । वि꣣दानाः꣢ । अ꣣स्य । श꣡क्म꣢꣯भिः ॥११३५॥

Mantra without Swara
आ मित्रे वरुणे भगे मधोः पवन्त ऊर्मयः । विदाना अस्य शक्मभिः ॥

आ । मित्रे । मि । त्रे । वरुणे । भगे । मधोः । पवन्ते । ऊर्मयः । विदानाः । अस्य । शक्मभिः ॥११३५॥

Samveda - Mantra Number : 1135
(Kauthum) उत्तरार्चिकः: » Prapathak » 4; Ardh Prapathak » 2;
(Rananiya) उत्तरार्चिकः: » Adhyay » 8; Khand » 2;

Samveda Bhashyam (Acharya Ramnath Vedalankar)

संस्कृत
Samveda Bhashyam (Acharya Ramnath Vedalankar) - संस्कृत
Meaning
(मधोः) मधुरस्य ज्ञानरसस्य ब्रह्मानन्दरसस्य वा (ऊर्मयः) तरङ्गा (मित्रे) मित्रभूते जीवात्मनि, (वरुणे) दोषनिवारके मनसि, (भगे) सेवनीये प्राणे च (आ पवन्ते) आगच्छन्ति। (विदानाः) तान् तरङ्गान् प्राप्नुवन्तो जनाः (अस्य) मधुरस्य ज्ञानस्य ब्रह्मानन्दस्य वा (शक्मभिः२) सामर्थ्यैः, युज्यन्ते इति शेषः। [शक्लृ शक्तौ ‘अशिशकिभ्यां छन्दसि’ उ० ४।१४८ इति मनिन्।] ॥८॥
Essence
ज्ञानस्य ब्रह्मानन्दस्य वा तरङ्गैः शरीररथं सर्वमपि मनोबुद्धिप्राणेन्द्रियादिकं रोम रोम च तरङ्गायते ॥८॥
Subject
अथ ज्ञानस्य ब्रह्मानन्दस्य च विषयो वर्ण्यते।
Footnote
१. ऋ० ९।७।८, ‘आ मि॒त्रावरु॑णा॒ भगं॒ मध्वः॑ पवन्त ऊ॒र्मयः॑ इति पूर्वार्धपाठः। २. शक्मभिः सुखैः इति सा०। शक्तैः कर्मभिः इति वि०।