Samveda Bhashyam (Acharya Ramnath Vedalankar)

Samveda Mantra 1134

1875 Mantra
Devata- पवमानः सोमः Rishi- असितः काश्यपो देवलो वा Chhand- गायत्री Swara- षड्जः
Mantra with Swara
स꣢ वा꣣यु꣡मिन्द्र꣢꣯म꣣श्वि꣡ना꣢ सा꣣कं꣡ मदे꣢꣯न गच्छति । र꣢णा꣣ यो꣡ अ꣢स्य꣣ ध꣡र्म꣢णा ॥११३४॥

सः । वा꣣यु꣢म् । इ꣡न्द्र꣢꣯म् । अ꣣श्वि꣡ना꣢ । सा꣣क꣢म् । म꣡दे꣢꣯न । ग꣣च्छति । र꣡ण꣢꣯ । यः । अ꣣स्य । ध꣡र्म꣢꣯णा ॥११३४॥

Mantra without Swara
स वायुमिन्द्रमश्विना साकं मदेन गच्छति । रणा यो अस्य धर्मणा ॥

सः । वायुम् । इन्द्रम् । अश्विना । साकम् । मदेन । गच्छति । रण । यः । अस्य । धर्मणा ॥११३४॥

Samveda - Mantra Number : 1134
(Kauthum) उत्तरार्चिकः: » Prapathak » 4; Ardh Prapathak » 2;
(Rananiya) उत्तरार्चिकः: » Adhyay » 8; Khand » 2;

Samveda Bhashyam (Acharya Ramnath Vedalankar)

संस्कृत
Samveda Bhashyam (Acharya Ramnath Vedalankar) - संस्कृत
Meaning
(यः) शिष्यः (अस्य) सोमस्य विद्याप्रेरकस्य आचार्यस्य (धर्मणा) नियमेन (रण) रणति चलति। [रण शब्दार्थः गत्यर्थश्च, भ्वादिः। अत्र तिब्लोपश्छान्दसः।] (सः) शिष्यः (मदेन साकम्) उत्साहेन सह (वायुम्) प्राणविद्यां पवनविद्यां वा, (इन्द्रम्) आत्मविद्यां विद्युद्विद्यां वा, (अश्विना) मनोबुद्धिविद्यां सूर्यचन्द्रविद्यां वा (गच्छति) प्राप्नोति ॥७॥
Essence
शिष्यैः समर्पणभावेन गुरूणां संरक्षणे निवसद्भिः सर्वा विद्या अधीत्य वायुविद्युदादिप्रयोगेण यानयन्त्रादीनि चालनीयानि सर्वं भूगोलखगोलज्ञानं प्राप्तव्यमाध्यात्मिक्यः सिद्धयश्च सम्पादनीयाः ॥७॥
Subject
अथ पुनर्गुरुशिष्यविषय उच्यते ॥
Footnote
१. ऋ० ९।७।७, ‘धर्म॑णा’ इत्यत्र धर्मभिः।