Samveda Bhashyam (Acharya Ramnath Vedalankar)

Samveda Mantra 1133

1875 Mantra
Devata- पवमानः सोमः Rishi- असितः काश्यपो देवलो वा Chhand- गायत्री Swara- षड्जः
Mantra with Swara
अ꣢व्या꣣ वा꣢रे꣣ प꣡रि꣢ प्रि꣣यो꣢꣫ हरि꣣र्व꣡ने꣢षु सीदति । रे꣣भो꣡ व꣢नुष्यते म꣣ती꣢ ॥११३३॥

अ꣡व्या꣢꣯ । वा꣡रे꣢꣯ । प꣡रि꣢꣯ । प्रि꣣यः꣢ । ह꣡रिः꣢꣯ । व꣡ने꣢꣯षु । सी꣣दति । रेभः꣢ । व꣣नुष्यते । मती꣣ ॥११३३॥

Mantra without Swara
अव्या वारे परि प्रियो हरिर्वनेषु सीदति । रेभो वनुष्यते मती ॥

अव्या । वारे । परि । प्रियः । हरिः । वनेषु । सीदति । रेभः । वनुष्यते । मती ॥११३३॥

Samveda - Mantra Number : 1133
(Kauthum) उत्तरार्चिकः: » Prapathak » 4; Ardh Prapathak » 2;
(Rananiya) उत्तरार्चिकः: » Adhyay » 8; Khand » 2;

Samveda Bhashyam (Acharya Ramnath Vedalankar)

संस्कृत
Samveda Bhashyam (Acharya Ramnath Vedalankar) - संस्कृत
Meaning
(प्रियः) प्रीतियोग्यः, (हरिः) चित्ताकर्षको दोषाणामपहर्ता च आचार्यः (अव्याः वारे) पृथिव्याः वृते स्थाने (वनेषु) अरण्यस्य एकान्तप्रदेशेषु (परि सीदति) तिष्ठति। (रेभः)विद्योपदेशकः सः। [रेभते इति रेभः, रेभृ शब्दे भ्वादिः।] (मती) मत्या (वनुष्यते) विद्याविघ्नान् विनाशयति। [वनुष्यतिः हन्तिकर्माऽनवगतसंस्कारो भवति। निरु० ५।२।] ॥६॥
Essence
विद्यायज्ञाय वनस्यैकान्तप्रदेश एव वरणीयो यत्र विघ्नकराणि नागरिकाणि प्रलोभनानि न भवेयुः ॥६॥
Subject
अथ पुनस्तमेव विषयमाह।
Footnote
१. ऋ० ९।७।६, ‘अव्यो वारे’ इति पाठः.।