Samveda Bhashyam (Acharya Ramnath Vedalankar)

Samveda Mantra 1132

1875 Mantra
Devata- पवमानः सोमः Rishi- असितः काश्यपो देवलो वा Chhand- गायत्री Swara- षड्जः
Mantra with Swara
प꣡व꣢मानो अ꣣भि꣢꣫ स्पृधो꣣ वि꣢शो꣣ रा꣡जे꣢व सीदति । य꣡दी꣢मृ꣣ण्व꣡न्ति꣢ वे꣣ध꣡सः꣢ ॥११३२॥

प꣡व꣢꣯मानः । अ꣣भि꣢ । स्पृ꣡धः꣢꣯ । वि꣡शः꣢꣯ । रा꣡जा꣢꣯ । इ꣣व । सीदति । य꣢त् । ई꣣म् । ऋण्व꣡न्ति꣢ । वे꣣ध꣡सः꣢ ॥११३२॥

Mantra without Swara
पवमानो अभि स्पृधो विशो राजेव सीदति । यदीमृण्वन्ति वेधसः ॥

पवमानः । अभि । स्पृधः । विशः । राजा । इव । सीदति । यत् । ईम् । ऋण्वन्ति । वेधसः ॥११३२॥

Samveda - Mantra Number : 1132
(Kauthum) उत्तरार्चिकः: » Prapathak » 4; Ardh Prapathak » 2;
(Rananiya) उत्तरार्चिकः: » Adhyay » 8; Khand » 2;

Samveda Bhashyam (Acharya Ramnath Vedalankar)

संस्कृत
Samveda Bhashyam (Acharya Ramnath Vedalankar) - संस्कृत
Meaning
(यत्) यदा (ईम्) एनम् आचार्यम् (वेधसः) विद्वांस अन्ये गुरवः (ऋण्वन्ति) प्राप्नुवन्ति, तदा अयम् (विशः) प्रजाजनान् राजा इव नृपतिरिव, शिष्यान् (पवमानः) पवित्राचरणान् कुर्वन् (स्पृधः) स्पर्धमानान् विद्यायागविघ्नकारिणः (अभि सीदति) अभिभवति ॥५॥ अत्रोपमालङ्कारः ॥५॥
Essence
आचार्य इतरेषां सुयोग्यानां गुरुजनानां साहाय्येनैव छात्रान् विदुषः पवित्रहृदयांश्च कर्त्तुं पारयति ॥५॥ आचार्य दूसरे सुयोग्य गुरुजनों की सहायता से ही छात्रों को विद्वान् और पवित्र हृदयवाला करने में समर्थ होता है ॥५॥
Subject
अथ पुनर्गुरुशिष्यविषयमेवाह।
Footnote
१. ऋ० ९।७।५।