Samveda Bhashyam (Acharya Ramnath Vedalankar)

Samveda Mantra 1131

1875 Mantra
Devata- पवमानः सोमः Rishi- असितः काश्यपो देवलो वा Chhand- गायत्री Swara- षड्जः
Mantra with Swara
प꣢रि꣣ य꣡त्काव्या꣢꣯ क꣣वि꣢र्नृ꣣म्णा꣡ पु꣢ना꣣नो꣡ अर्ष꣢꣯ति । स्व꣢꣯र्वा꣣जी꣡ सि꣢षासति ॥११३१॥

प꣡रि꣢꣯ । यत् । का꣡व्या꣢꣯ । क꣣विः꣢ । नृ꣣म्णा꣢ । पु꣣नानः꣢ । अ꣡र्ष꣢꣯ति । स्वः꣢ । वा꣣जी꣢ । सि꣣षासति ॥११३१॥

Mantra without Swara
परि यत्काव्या कविर्नृम्णा पुनानो अर्षति । स्वर्वाजी सिषासति ॥

परि । यत् । काव्या । कविः । नृम्णा । पुनानः । अर्षति । स्वः । वाजी । सिषासति ॥११३१॥

Samveda - Mantra Number : 1131
(Kauthum) उत्तरार्चिकः: » Prapathak » 4; Ardh Prapathak » 2;
(Rananiya) उत्तरार्चिकः: » Adhyay » 8; Khand » 2;

Samveda Bhashyam (Acharya Ramnath Vedalankar)

संस्कृत
Samveda Bhashyam (Acharya Ramnath Vedalankar) - संस्कृत
Meaning
(कविः) क्रान्तद्रष्टा मेधावी कविहृदयः सोमः विद्वान् आचार्यः (नृम्णा) नृम्णानि बलानि (पुनानः) पवित्रयन् (यत्) यदा (काव्या) वेदादिकाव्यानि (परि अर्षति) व्याख्याति, तदा (वाजी) बलविज्ञानवान् सः शिष्येभ्यः (स्वः) आनन्दम् (सिषासति) प्रदातुमिच्छति। [षण सम्भक्तौ षणु दाने वा धातोः सनि रूपम्] ॥४॥
Essence
विदुष आचार्यस्य वेदादिशास्त्रव्याख्यानं शिष्येभ्यः परमानन्दकरं ज्ञानवर्धकं च जायते ॥४॥
Subject
अथ पुनस्तमेव विषयमाह।
Footnote
१. ऋ० ९।७।४, ‘पुनानो’ इत्यत्र ‘वसा॑नो॒’।