Samveda Bhashyam (Acharya Ramnath Vedalankar)

Samveda Mantra 1130

1875 Mantra
Devata- पवमानः सोमः Rishi- असितः काश्यपो देवलो वा Chhand- गायत्री Swara- षड्जः
Mantra with Swara
प्र꣢ यु꣣जा꣢ वा꣣चो꣡ अ꣢ग्रि꣣यो꣡ वृषो꣢꣯ अचिक्रद꣣द्व꣡ने꣢ । स꣢द्मा꣣भि꣢ स꣣त्यो꣡ अ꣢ध्व꣣रः꣢ ॥११३०॥

प्र । यु꣣जा꣢ । वा꣣चः꣢ । अ꣣ग्रियः꣢ । वृ꣡षा꣢꣯ । उ꣣ । अचिक्रदत् । व꣡ने꣢꣯ । स꣡द्म꣢꣯ । अ꣣भि꣢ । स꣣त्यः꣢ । अ꣣ध्व꣢रः ॥११३०॥

Mantra without Swara
प्र युजा वाचो अग्रियो वृषो अचिक्रदद्वने । सद्माभि सत्यो अध्वरः ॥

प्र । युजा । वाचः । अग्रियः । वृषा । उ । अचिक्रदत् । वने । सद्म । अभि । सत्यः । अध्वरः ॥११३०॥

Samveda - Mantra Number : 1130
(Kauthum) उत्तरार्चिकः: » Prapathak » 4; Ardh Prapathak » 2;
(Rananiya) उत्तरार्चिकः: » Adhyay » 8; Khand » 2;

Samveda Bhashyam (Acharya Ramnath Vedalankar)

संस्कृत
Samveda Bhashyam (Acharya Ramnath Vedalankar) - संस्कृत
Meaning
(अग्रियः) अग्रे भवः श्रेष्ठः, (वृषा२) ज्ञानवर्षकः, (सत्यः) सत्यनिष्ठ, (अध्वरः) यज्ञमयजीवनः, सोमः विद्वान् गुरुः (वने) अरण्ये (सद्म अभि) गुरुकुलगृहे (वाचः युजा) वाण्याः योगेन (उ) निश्चयेन (प्र अचिक्रदत्) प्रक्रन्दति, शिष्यान् कर्तव्यानि उपदिशति ॥३॥
Essence
उपह्वरे गिरीणां सङ्गमे च नदीनां गुरुकुलानि संचालयन्तः सत्यनिष्ठा गुरवः शिष्यानध्याप्य विदुषः कर्तव्य-परायणान् सदाचारिणश्च कुर्युः ॥३॥
Subject
अथ कीदृशो गुरुः किं करोतीत्याह।
Footnote
१. ऋ० ९।७।३, ‘प्र युजो वा॒चो अ॑ग्रि॒यो वृषाव॑ चक्रद॒द्वने॑’ इति पूर्वार्धपाठः। २. ‘वृषो अचिक्रदत्’ इति मूलस्य ‘वृषः अचिक्रदत्’ इति छेदमवलम्ब्य व्याचष्टे सायणः, परमेष पदग्रन्थविरुद्धः, तत्र ‘वृषा उ अचिक्रदत्’ इति छेददर्शनात्। अत एव विवरणकार आह—वृषा सेक्ता, उ इति पदपूरणः—इति सामश्रमी।