Samveda Bhashyam (Acharya Ramnath Vedalankar)

Samveda Mantra 113

1875 Mantra
Devata- अग्निः Rishi- सौभरि: काण्व: Chhand- उष्णिक् Swara- ऋषभः Kaand Name- आग्नेयं काण्डम् Gaan- प्रकृति गान Gaan Parva- आग्नेयं पर्व
Mantra with Swara
त꣡द꣢ग्ने द्यु꣣म्न꣡मा भ꣢꣯र꣣ य꣢त्सा꣣सा꣢हा꣣ स꣡द꣢ने꣣ कं꣡ चि꣢द꣣त्रि꣡ण꣢म् । म꣣न्युं꣡ जन꣢꣯स्य दू꣣꣬ढ्य꣢꣯म् ॥११३॥

त꣢त् । अ꣣ग्ने । द्युम्न꣢म् । आ । भ꣣र । य꣢त् । सा꣣सा꣡ह꣢ । स꣡द꣢꣯ने । कम् । चि꣣त् । अत्रि꣡ण꣢म् । म꣣न्यु꣢म् । ज꣡न꣢꣯स्य । दू꣣ढ्य꣢꣯म् ॥११३॥

Mantra without Swara
तदग्ने द्युम्नमा भर यत्सासाहा सदने कं चिदत्रिणम् । मन्युं जनस्य दूढ्यम् ॥

तत् । अग्ने । द्युम्नम् । आ । भर । यत् । सासाह । सदने । कम् । चित् । अत्रिणम् । मन्युम् । जनस्य । दूढ्यम् ॥११३॥

Samveda - Mantra Number : 113
(Kauthum) पूर्वार्चिकः: » Prapathak » 2; Ardh Prapathak » 1; Dashati » 2;
(Rananiya) पूर्वार्चिकः: » Adhyay » 1; Khand » 12;

Samveda Bhashyam (Acharya Ramnath Vedalankar)

संस्कृत
Samveda Bhashyam (Acharya Ramnath Vedalankar) - संस्कृत
Meaning
हे (अग्ने) तेजोमय परमात्मन् ! त्वम् (तत्) स्पृहणीयम् (द्युम्नम्) तेजः। द्युम्नं द्योततेः। निरु० ५।५। (आभर) अस्मभ्यम् आहर, (यत्) तेजः (सदने) हृदयगृहे राष्ट्रगृहे वा (कं चित्) यं कमपि (अत्रिणम्) भक्षकं पापरूपं पापिरूपं वा राक्षसम्। अद् भक्षणे धातोः अदेस्त्रिनिश्च।’ उ० ४।६९ इति त्रिनिः प्रत्ययः। रक्षांसि वै पाप्माऽत्रिणः। ऐ० ब्रा० २।२। किञ्च (जनस्य) मनुष्यस्य (ढूढ्यम्२) दुष्टा धीर्यस्मात् तम् दुर्बुद्धिकारकमित्यर्थः। ढूढ्यं दुर्धियं पापधियम् इति निरुक्तम् ५।२। (मन्युम्) क्रोधम्। मन्युः क्रोधनाम। निघं० २।१३। (सासाह) अभिभवेत्। अभिभवार्थात् षह धातोः लिङर्थे लिट्। तुजादीनां दीर्घोऽभ्यासस्य।’ अ० ६।१।७ इत्यभ्यासदीर्घः ॥७॥
Essence
मनुष्यस्य हृदयसदनं बहवः पापरूपा राक्षसाः राष्ट्रसदनं च भ्रष्टाचाररताः पापिरूपा राक्षसा समाक्रम्य विकारयितुमिच्छन्ति। क्रोधोऽपि मनुष्यस्य राष्ट्रस्य च महान् रिपुर्येन ग्रस्ताः प्रजा राज्याधिकारिणो वा सहृदयतां विहाय नरपिशाचत्वं प्रतिपद्यन्ते। परमेश्वरस्य प्रेरणया जनैस्तत् तेजो धारणीयं येन ते समस्तानपि पापविचारान्, पापिनो जनान्, क्रोधस्य नग्नं ताण्डवं च विखण्ड्य स्वात्महृदयं, जनहृदयं, राष्ट्रहृदयं च पवित्रं कुर्युः ॥७॥
Subject
अथ परमात्मानं तेजः प्रार्थयते।
Footnote
१. ऋ० ८।१९।१५, सासाह, ढूढ्यम्, इत्यत्र क्रमेण सासहत्, दूढ्यः इति पाठः। २. दूढ्यं दुर्धियं दुष्टाभिध्यानं वा—इति भ०।